________________
श्रीभग० लघुवृत्तौ
घडियाए 'ति अनगारो - भावितात्मा लब्धिसामर्थ्यात् 'केयाघडिए'त्ति रज्जुबद्धघटिकाहस्तः सन् नभसि गच्छति इत्याद्यर्थवाच्यो नवमः, 'समुग्धाएं'ति समुद्घातवाच्यो दशमः ॥ 'केवइया काउलेसा उववजंति'त्ति (सू. ४६९) रत्नप्रभा पृथ्व्यां कापोतलेश्या एवोत्पद्यन्ते, न कृष्णलेश्यादय इति कापोतलेश्यानेवाश्रित्य प्रश्नः कृतः, 'केवइया कण्हपक्खिय'त्ति इत्यादि, एषां च लक्षणमिदम् - जेसिमबड़ो पोग्गलपरियट्टो सेसओ य संसारो । ते मुक्कपक्खिया खलु इयरे पुण कण्हपक्खीया ।। १ ।।" इति, 'चक्खुदंसणी न उववज्जंति' त्ति इन्द्रियत्यागेन तत्रोत्पत्तेरिति, तर्हि अचक्षुर्दर्शनिनः कथमुत्पद्यन्ते ?, उच्यते, इन्द्रियानाश्रितस्य सामान्योपयोगमात्रस्याचक्षुर्दर्शनशब्दाभिधेयस्योत्पादसमयेऽपि भावादचक्षुर्दर्शनिन उत्पद्यन्त इत्युच्यत इति, 'इत्थिवेयगे'त्यादि, स्त्रीपुरुषवेदा नोत्पद्यन्ते, भवप्रत्ययान्नपुंसक वेदत्वात्तेषां, 'सोइंदि ओवउत्ते' इत्यादि, श्रोत्राद्युपयुक्ता नोत्पद्यन्ते इन्द्रियाणां तदानीमभावात्, 'नोइंदिओवउत्ता उववजंति'त्ति नोइन्द्रियं - मनः, तत्र च यद्यपि मनःपर्यात्यभावे द्रव्यमनो नास्ति तथापि भावमनसश्चैतन्यरूपस्य तदा भावात् तेनोपयुक्तानामुत्पत्तेः नोइन्द्रियोपयोगयुक्ता उत्पद्यन्ते इत्युच्यते, 'मणजोगि 'त्ति मनोयोगिनो वाग्यो गिनश्च नोत्पद्यन्ते, उत्पत्तिसमयेऽपर्याप्तत्वेन मनोवाचोरभावादिति, 'कायजोगी उववज्जंति'त्ति सर्व संसारिणां कार्मणयोगस्य सदा सद्भावादिति ॥ अथ रत्नप्रभानारकाणामेवोद्वर्त्तनामभिधातुमाह-' असण्णी न उब्वहंति त्ति उद्वर्त्तना हि परभवप्रथमसमये स्यात्, न च नारकोsसंज्ञिषूत्पद्यते, ततस्तेऽसंज्ञिनस्पन्तो नोद्वर्त्तन्त इत्युच्यते, 'एवं विभंगनाणी न उब्वति' इत्यपि भावनीयं यतो विभङ्गज्ञानिनो नारकाः पतितविभङ्गज्ञानिनस्सन्तश्यवन्त इत्युच्यत इति, शेषाणि तु पदानि उत्पादवद् व्याख्येयानि, उक्तं च चूर्ण्याम्- 'अस्सण्णिणो य विभंगिणो य उच्चट्टणाए वजेजा । दोमुवि य चक्खुदंसी मणवय तह इंदियाई च ॥ १ ॥ 'ति ।
१३ श० १ उद्देशः
॥१९३॥