________________
श्रीभग
१२२०
लघुवृत्ती
११२
क्तव्यं ३ आत्मा नोआत्मानो अवक्तव्यानि ४, एवमेकत्वबहुत्वाभ्यां सर्वे जाताः १९ । अथ पञ्चप्रदेशिकस्कन्धे एककद्विकयोगाश्चिन्त्यन्ते, यथा सिय आया सिय णोआया सिय अवत्तव्यं आयाइ य णोआयाइ य'इत्यादि, आत्मा १ नोआत्मा १ अबक्तव्यं | १, जाता एककयोगास्त्रयः, अथ द्विकयोगाः प्राग्वद् द्वादश ज्ञेयाः, अथ त्रिकयोगाः सप्त, यथा-आत्मा नोआत्मा अवक्तव्यं १ आत्मा नोआत्मा अवक्तव्यानि २ आत्मा नोआत्मानः अवक्तव्यं ३.आत्मा नोआत्मानः अवक्तव्यानि ४ आत्मानः नोआत्मा अवक्तव्यं ५ आत्मानः नोआत्मा अवक्तव्यानि ६ आत्मानः नोआत्मानः अवक्तव्यं ७ एवं सर्वे जाताः २२, षट्प्रदेशिके एकक| योगाः प्रागुक्ताः, द्विकयोगाः प्रागुक्ता १२, त्रिकयोगाः प्रागुक्तास्सप्त, अष्टमश्चायं-आत्मानः नोआत्मानः अवक्तव्यानि ८, एवं | सर्वेऽष्टमक्षेपे जातास्त्रयोविंशतिभेदाः॥ द्वादशशते दशम उद्देशक:
इतिश्रीलक्ष्मीसागरसूरिशिष्यश्रीसुमतिसाधुसूरिशिष्यश्रीहेमविमलसूरिविजयराज्ये श्रीजिनमाणिक्यगणि|शिष्यश्रीअनन्तहंसगणिशिष्यपं0 दानशेखरगणिसमुद्धतायां भगवतीलघुवृत्तौ द्वादशशतविवरणं सम्पूर्णम् ॥
अथ त्रयोदशं शतमारभ्यते, यथा "पुढवी १ देवा २ ऽणंतर ३, पुढवी ४ आहारमेव ५ उववाओ६। भासा ७ कम्म८ ऽणगारे; केयाघडिया ९ समुग्धाए १० ॥१॥" (* ७२) 'पुढवी'त्ति नरकपृथ्वीवाच्यः प्रथमः, 'देव'त्ति देवप्ररूपणार्थों द्वितीयः 'अणंतर'त्ति अनन्तराहारका नारका इत्याद्यर्थवाच्यस्तृतीयः 'पुढवित्ति पृथ्वीगतविचारार्थश्चतुर्थः, नारकाद्याहारवाच्यः | पञ्चमः 'उववाए'त्ति नरकाद्युपपातार्थः षष्ठः 'भास'त्ति भाषार्थः सप्तमः, 'कम्मत्ति कर्मप्रकृतिवाच्यः अष्टमः, अणगारे केया