SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती २० उद्दे. एवोपनीयते, न व्यभिचारो, यथेह दर्शने, यत्र तु विपर्ययोऽस्ति तत्र व्यभिचारो नियमश्च, यथा ज्ञाने, आत्मा ज्ञानरूपोऽज्ञानरूपश्चेति व्यभिचारः, ज्ञानं त्वात्मैवेति नियमः॥ आत्माधिकाराद्रत्नप्रभादिभावेन आत्मत्वादि चिन्तयन्नाह–'आया भंतेत्ति (सू . ४६८)अतति-गच्छति तांस्तान् पर्यायानित्यात्मा, ततश्चात्मा-सद्रूपा रत्नप्रभापृथ्वी 'अन्न'त्ति अनात्मा, असद्रूपेत्यर्थः, 'सिया आया सिय नो आय'त्ति स्यात्सती स्यादसती 'सिय अवत्तव्य'त्ति आत्मत्वेनानात्मत्वेन च व्यपदेष्टुमशक्यं वस्त्विति भावः; | कथमवक्तव्यमित्याह-आत्मेति नोआत्मेति च वक्तुमशक्यमित्यर्थः, अप्पणो आइ8'ति आत्मनः-स्वस्य रत्नप्रभाया एव वर्णादिपर्यायैरादिष्टे-आदेशे सति, तैर्व्यपदिष्टा सतीत्यर्थः, आत्मा, स्यात् वपर्यायापेक्षया सतीत्यर्थः, परस्स आइडे नोआय'त्ति | परस्य-शर्करादिपृथ्व्याख्यस्य पर्यायैरादिष्टे-आदेशे सति, तैर्व्यपदिष्टा सतीत्यर्थः, नोआत्मा-अनात्मा स्यात् , पररूपापेक्षया असतीत्यर्थः, 'तदुभयस्स आइडे'त्ति तयोः-स्वपरयोरुभयं तदुभयं तस्य पर्यायैरादिष्टे-आदेशे सति, तदुभयपर्यायैर्व्यपदिष्टेत्यर्थः, अवक्तव्यं-अवाच्यं वस्तु स्यात् , तथाहि-न ह्यसौ आत्मेति वक्तुं शक्या, परपर्यायापेक्षया अनात्मत्वात् तस्याः, नाप्यनात्मेति वक्तुं शक्या, स्वपर्यायापेक्षया तस्या आत्मत्वादिति, अवक्तव्यत्वं च आत्मानात्मशब्दापेक्षयैव, न तु सर्वथा, अवक्तव्यशब्देनैव तस्या उच्यमानत्वात् , अनभिलाप्यभावानामपि भावपदार्थवस्तुप्रभृतिशब्दैरनभिलाप्यशब्देनाभिलाप्यत्वादिति, एवं परमाणुसूत्रमपि । द्विप्रदेशिकसूत्रे षट् भङ्गाः, तत्राद्यास्त्रयः सम्पूर्णस्कन्धापेक्षाः प्रागुक्ता एव, तदन्ये तु त्रयो देशापेक्षाः, तत्र गोयमेत्यत आरभ्य व्याख्यायते-'अप्पणोति तस्य पर्यायः 'आदितॄत्ति आदेशे सति, आदिष्ट इत्यर्थः, द्विप्रदेशिकस्कन्धः, आत्मा स्यात् १ एवं परस्य पर्यायैरादिष्टेऽनात्मा २ तदुभयस्य द्विप्रदेशिकस्कन्धः तदन्यस्कन्धलक्षणस्य पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्यात् , कथं?,
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy