________________
श्रीभग
.
ar
.
लघुवृत्ती
.
कास्स्युः, अत्र गाथा-"कोडिसहस्सपुहुत्तं जईण तो थोवियाउ चरणाया । नाणाया पंतगुणा पडुच्च सिद्धे य सिद्धाओ॥१॥ होति कसायायाओ पंतगुणा जेण ते सरागाणं । जोगाया भणियाओ अजोगिवजाण तो अहिया ॥२॥जं सेलेसिगयाणं लद्धी विरियं तओ समधियाओ । उवओगदवियदंसण सव्वजियाणं तओ अहिया ॥३॥" अथात्मनः स्वरूपमाह-'आया भंते'त्ति (सू.४६७) आत्मा ज्ञानं, योऽयमात्माऽसौ ज्ञानं न तयो दः, अथात्मनोऽन्यत् ज्ञानं इति प्रश्नः, उत्तरं तु आत्मा स्यात् ज्ञानं, सम्यक्त्वे सति तस्य मतिज्ञानादिखभावत्वात , तस्य स्यादज्ञानं मिथ्यात्वे सति तस्य मत्यज्ञानादिस्वरूपत्वात् , ज्ञानं पुनर्नियमादात्मा आत्मधर्मत्वात् । ज्ञानस्य, न च सर्वथा धर्मो धम्मिणो भिद्यते, सर्वथा भेदे हि विप्रकृष्टगुणिनो गुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषाद् , दृश्यते च यदा कश्चिद् दूरतः किमपि शुक्लं पश्यति तदा किमियं पताका किमियं | बलाकेत्येवं प्रतिनियतगुणिविषयोऽसौ, नापि धम्मिणो धर्मः सर्वथैवाभिन्नः, सर्वथैवाभेदे हि संशयानुत्पत्तिरेव, गुणग्रहणत एव गुणिनोऽपि गृहीतत्वाद् , अतः कथञ्चिदभेदपक्षमाश्रित्य ज्ञानं पुननियमादात्मेत्युच्यते, इह चात्मा ज्ञानं व्यभिचरति, ज्ञानं त्वात्मानं न व्यभिचरति, खदिरवनस्पतिवदिति सूत्रार्थः। अमुमेवार्थ दण्डके निरूपयन्नाह-'आये'त्यादि, नारकाणामात्मा-आत्मस्वरूपं ज्ञानं उतान्यन्नारकाणां ज्ञानं ?, तेभ्यो व्यतिरिक्तमित्यर्थः, इति प्रश्नः, उत्तरं तु आत्मा नारकाणां स्यात् ज्ञानं, सम्यग्दर्शनभावात् , स्यादज्ञानं मिथ्यादृग्भावात् , ज्ञानं पुनः 'से'त्ति तन्नारकसम्बन्धि आत्मा, न तद्वयतिरिक्त इत्यर्थः, 'आया भंते! पुढवित्ति आत्मा-आत्मस्वरूपमज्ञानं उतान्यत्र तेषां, उत्तरं तु-आत्मा तेषामज्ञानरूपः, नान्यत् तेभ्य इति भावार्थः । दर्शनसूत्राण्यप्येवं-नवरं सम्यग्दृष्टिमिथ्यादृष्ट्योदर्शनस्याविशिष्टत्वात आत्मा दर्शनं दर्शनमप्यात्मवेति वाच्यं, यत्र हि धर्मविपर्ययो नास्ति तत्र नियम