________________
श्रीभग० पयोगात्माऽस्त्येव यथा संसारिणामिव ४ । अथ ज्ञानात्मना सहान्यानि त्रीणि चिन्त्यन्ते, तत्र यस्य ज्ञानात्मा तस्य दर्शनात्माऽस्त्येव लघुवृत्तौ सम्यग्दृशामिव यस्य दर्शनात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृशां स्यान्नास्ति यथा मिथ्यादृशां, अत एवोक्तं- 'भयणाए'त्ति, तथा 'जस्स नाणाया तस्स चरिताया सिय अस्थि', संयतानामिव 'सिय णत्थि 'त्ति असंयतानामिव, 'जस्स पुण चरिताया तस्स नाणाया नियमं अस्थि' ज्ञानं विना चारित्रस्याभावात्, तथा 'नाणाये' त्यादि, अस्यार्थो - यस्य ज्ञानात्मा तस्य वीर्यात्मा स्यादस्ति, केवल्यादीनामिव, स्यान्नास्ति सिद्धानामिव यस्यापि वीर्यात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टेरिय | स्यान्नास्ति मिथ्यादृश इव ३ । अथ दर्शनात्मना सह द्वे चिन्त्येते, भावना चास्य यस्य दर्शनात्मा तस्य चारित्रात्माऽस्ति संयतानामित्र, स्यान्नास्त्यसंयतानामिव यस्य चारित्रात्मा तस्य दर्शनात्माऽस्त्येव, साधूनामिव, यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव, स्यान्नास्ति सिद्धानामिव यस्य वीर्यात्मा तस्य दर्शनात्माऽस्त्येव, संसारिणामिव २ । अथान्तिमपदयोर्यो - जना -यस्य चारित्रात्मा तस्य वीर्यात्माऽस्त्येव, वीर्यं विना चारित्रस्याभावात् यस्य वीर्यात्मा तस्य चारित्रात्मा स्यादस्ति, साधूनामिव, स्यान्नास्ति असंयतानामिव । अथैषामेवात्मना मल्पबहुत्वमाह, तत्र 'सव्वत्थोवा चरिताय'त्ति चारित्रिणां सख्यातत्वात् 'नाणायाउ 'ति सिद्धादीनां सम्यग्दृशां चारित्रिभ्योऽनन्तगुणत्वात्, 'कसायाउ' त्ति सिद्धेभ्यः कषायोदयवतामनन्तगुणत्वात्, 'जोगायाउ 'त्ति अपगतकषायोदयैर्योगवद्भिरधिकाः, 'वीरियाउ'त्ति अयोगिभिरधिका इत्यर्थः, अयोगिनां सवीर्यत्वात्, 'उवओगदवियदसणायाओ तिण्णिवि' त्ति परस्परापेक्षया तुल्याः, सर्वेषां सामान्यजीवरूपत्वात् वीर्यात्मभ्यः सकाशादुपयोगद्रव्यदर्शनात्मानो विशेषाधिकाः, यतो वीर्यात्मानः सिद्धाथ मीलिता उपयोगाद्यात्मानः स्युः, ते च वीर्यात्मभ्यः सिद्धराशिना अधि
१२ श०
१९०॥