SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीभगः பர்பு illith लघुवृत्ती ४०. ऽयोगी स्यात् , यस्य योगात्मा तस्य कषायात्मा स्याद्वा न वा, सयोगानां सकपायाणामकपायाणां च भावादिति, एवं उवओगायाएऽवी'ति अयमर्थः-यस्य कषायात्मा तस्योपयोगात्माऽवश्यं स्यात् , उपयोगरहितस्य कषायाणामभावात् , यस्य पुनरुपयोगात्मा तस्य कषायात्मा भजनया, उपयोगात्मतायां सत्यामपि सकपायाणामेव कषायात्मा स्यात् निष्कषायाणां तु नासाविति भजनया, तथा 'कसायाया नाणाया य परोप्परं'ति, अयमर्थः-कथं ?, यस्य कषायात्मा तस्य ज्ञानात्मा स्यादस्ति स्यानास्ति, यतः कपायिणः सम्यग्दृष्टेर्ज्ञानात्माऽस्ति मिथ्यादृष्टेरसौ नास्तीति भजना, तथा यस्य ज्ञानात्माऽस्ति तस्य कषायात्मा स्यादस्ति, ज्ञानिनां कषायभावात् तदभावाचेति भजना, 'जहा कसायाया उवओगाया य तहा कसाया दंसणाया यत्ति अतिदेशः, तसाच्चेदं लब्धं-'जस्स कसायाया तस्स दंसणाया णियमं अत्थिति, दर्शनरहितस्य घटादेः कषायात्मनोऽभावात् 'जस्स पुण दंस. णाया तस्स कसाया सिय अस्थि सिय नत्थिति, दर्शनवतां कषायसद्भावात् तदभावाचेति, दृष्टान्तार्थस्तु प्राग्वत् , 'कसायाया चरित्ताया य दोऽवि परोप्परति भजना चैवम्-यस्य कषायात्मा तस्य चारित्रात्मा स्यादस्ति, कथं ?, कपायिणां चारित्रसद्भावात् प्रमत्तयतीनामिव, तदभावाचेति असंयतानामिव, तथा यस्य चारित्रात्मा तस्य कषायात्मा स्यान्नास्ति, कथं १, सामायि| कादिचारित्रवतां कषायभावात् ,यथाख्यातचारित्रिणां तदभावादिति, जहा कसायाया जोगाया य तहा कसायाया वीरियाया | य भाणियव्वाओ'त्ति दृष्टान्तः प्राग्वत् , दार्टान्तिकस्त्वेवम्-यस्य कषायात्मा तस्य वीर्यात्मा नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति, यस्य कषायात्मा तस्य वीर्यात्मा भजनया, यतो वीर्यवान् सकषायोऽपि स्यात् , यथाऽसंयतः, अकषायोऽपि यथा केवलीति ।अथ योगात्मा अग्रेतनपदपञ्चकेन सह चिन्त्यः, 'एवं जहा कसायायाए वत्तव्वया भणिया जहा जोगायाएवि i ய தயார். எeause in ॥१८९॥ ாம்
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy