________________
श्रीभग०
लघुवृत्ती
०
चिन्त्यते, तत्र यस्य जीवस्य द्रव्यात्मा-द्रव्यात्मत्वं, जीवत्वमित्यर्थः, तस्य कषायात्मा स्यादस्ति-कदाचिदस्ति, सकपायावस्थायां, स्यान्नास्ति-कदाचिन्नास्ति, क्षीणोपशान्तकषायावस्थायां, यस्य पुनः कषायात्मा अस्ति तस्य द्रव्यात्मा-द्रव्यात्मत्वं-जीवत्वं नियमादस्ति, जीवत्वं विना कपायाणामभावात् , तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिव, नास्ति चायोगिसिद्धानामिव, तथा यस्य योगात्मा तस्य द्रव्यात्मा नियमादस्ति, प्राग्वत् , 'एवं जहा दवियाय'त्ति तथा यस्य जीवस्य द्रव्यात्मा तस्य उपयोगात्मा नियमादस्ति, यस्योपयोगात्मा तस्य नियमात् द्रव्यात्मा, एतयोमिथोऽविनाभूतत्वाद् , यथा सिद्धस्य तदन्यस्य च द्रव्यात्मा अस्ति उपयोगात्मा चोपयोगलक्षणत्वात् जीवानां, एतदेवाह-'जस्स दवियाया तस्स नाणाया भयणाए'त्ति यस्य द्रव्यात्मा तस्य ज्ञानात्मा स्यादस्ति, यथा सम्यग्दर्शनिनां, स्यान्नास्ति यथा मिथ्यादृष्टीनां, इत्येवं भजना, यस्य ज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा सिद्धस्सत्ति, तथा 'जस्स दवियाया तस्स दंसणाया णियमा अत्थिति यथा सिद्धस्य केवलदर्शनं, 'जस्सवि दसणाया तस्स दवियाया णियम अत्थिति यथा चक्षुर्दर्शनादिदर्शनवतां जीवत्वमिति, 'जस्स दवियाया तस्स चरित्ताया भयणाए'त्ति, यतस्सिद्धस्याविरतस्य वा द्रव्यात्मत्वे सत्यपि चारित्रात्मा नास्ति विरतानां चास्ति इति भजनया, 'जस्स पुण चरित्ताया तस्स दवियाया णियमं अत्थिति, चारित्रिणां जीवत्वाव्यभिचारत्वात् , 'एवं वीरियायाएवि समंति यथा द्रव्यात्मनश्चारित्रात्मना सह भजनोक्ता नियमश्च एवं वीर्यात्मनापि सहेति, तथाहि-यस्य द्रव्यात्मा तस्य वीर्यात्मा नास्ति, यथा सकरणवीर्यापेक्षया सिद्धस्य, तदन्यस्य त्वस्तीति भजना, वीर्यात्मनस्तु द्रव्यात्माऽस्त्येव यथा संसारिणामिति । अथ कषायात्मना सहान्यानि षट् पदानि चिन्त्यन्ते-'जस्स ण'मित्यादि, यस्य कषायात्मा तस्य योगात्माऽस्त्येव, न हि सकपायो