________________
श्रीभग लघुवृत्ती
Imhaan intere illuminate.
WHITAITHILIUM Himmunity
पेतेष्वप्युत्पत्तेरिति, धम्मदेवा संखिजत्ति साधूनामेकदापि कोटीसहस्रपृथक्त्वसद्भावादिति, भवियदव्वदेवा असंखिजत्ति | देशविरतादीनां देवगतिगामिनामसङ्ख्यातत्वात् , "भावदेवा असंखिज'त्ति स्वरूपेणैव तेषामतिबद्दुत्वादिति । अथ भावदेवविशेषाणां भवनपत्यादीनामल्पबहुत्वमाह-'जहा जीवाभिगमे तिविहे'त्ति विविधजीवाधिकार इत्यर्थः, तत्र देवपुरुषाणामल्पबहुत्वमुक्तं तथेहापि वाच्यं, तच्चैवम्-'सहस्सारे कप्पे देवा असंखिजगुणा महासुक्के असं० लंतए असं० बंभलोए असं० माहिदे असं० सणंकुमारे असं० ईसाणे असं० सोहम्मे असं०, भवणवासिदेवा असं० वाणमंतरा असंखिजगुण'त्ति ॥ द्वादशशते नवमः॥
'आय'त्ति (सू. ४६६) अतति-सततं गच्छति अपरापरान् स्वरूपपर्यायानित्यात्मा, अथवा अत धातोर्गमनार्थत्वेन ज्ञानार्थ| त्वादतति-सततमवगच्छति, उपयोगलक्षणत्वात् , सामान्येनेकविधत्वेऽपि उपाधिभेदादष्टविधत्वं, तत्र 'दवियाय'त्ति द्रव्यं-त्रिकालानुगामि उपसर्जनीकृतकषायादिपव्यरूपं तद्रूप आत्मा द्रव्यात्मा, सर्वेषां जीवानां, 'कसायाय'त्ति क्रोधादिविशिष्ट आत्मा कषायात्मा, अक्षीणानुपशान्तकषायाणां, 'जोगाय'त्ति योगा-मनःप्रभृतिव्यापारास्तत्प्रधान आत्मा योगात्मा, योगवतामेव, सिद्धसंसारिस्वरूपसर्वजीवानां, अथवा विवक्षितवस्तूपयोगापेक्षयोपयोगात्मा, नाणाय'त्ति ज्ञानविशेषित उपसर्जनीकृतदर्शनादिरात्मा ज्ञानात्मा, सम्यग्दृष्टेः, एवं दर्शनात्मादयोऽपि, नवरं दर्शनात्मा सर्वजीवानां, चारित्रात्मा विरतानां, वीर्य उत्थानादि | तदात्मा, सर्वसंसारिणामिति, उक्तं च-जीवानां द्रव्यात्मा ज्ञेयः सकपायिणां कषायात्मा। योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥१॥ ज्ञानं सम्यग्दृष्टेर्दर्शनमथ स्यात् सर्वजीवानाम् । चारित्रं विरतानां सर्वसंसारिणां वीर्य ॥२॥" मिति, इत्यष्टधाऽऽत्मानं | प्ररूप्याथ यस्यात्मभेदस्य यदन्यदात्मभेदान्तरं युज्यते तस्य तद्दर्शयितुमाह, इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेषैस्सप्तभिस्सह