SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ वती श्रीभगगवतां बालतपस्विना, कंदप्पिय'त्ति, कन्दर्प:-परिहासःस येषामस्ति ते कान्दर्पिकाः तेषां कान्दर्पिकाणां, व्यवहारतश्चरणवतां कन्द- १ शतके IMR उद्देशः पंकोत्कुच्यादिकारकाणामित्यर्थः, आह च-"भुमनयणवयणदसणच्छदेहिं करपायकण्णमाईहिं । तं तं करेइ जह जह हसइ परो अप्पसूत्रम् |Nणा अहसं ॥१॥'चरग'त्ति चरकपरिव्राजका धाट्यादिभैक्ष्योपजीविनस्त्रिदण्डिन इत्यर्थः, अथवा चरकाः-कच्छोटादयः परिवा । जका:-कपिलमुनिसूनवोऽतस्तेषां, 'किब्बिसयाणं'ति किल्बिषं-पापं तदस्ति येषां ते किल्बिषिकाः तेषां, व्यवहारतश्चरणवतां । ज्ञानाद्यवर्णवादिनां चेत्यर्थः, 'तेरिच्छियाणं'ति तथा तिरश्चां-गवाश्चादीनां देशविरतिभाजां, 'अजीव 'त्ति आजीविकानांपाखण्डिनां,नाग्न्यधारिणां गोशालकशिष्याणामित्यन्ये,आजीवन्ति वा अविवेकिलोकतो लब्धिपूजारव्यात्यादिभिस्ते (ये ते) आजीविकास्तेषां, आभिओगि'त्ति अभियोगः-परेषां वशीकरणादि रूपविद्यामन्त्रादिमिः, स च द्विधा, यदाह-"दुविहो खलु अभिओगो, |दव्वे भावे य होइ नायव्यो । दव्वम्मि होइ जोगो, विजा मंता य भावम्मि॥१॥" ते व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, | यदाह-"कोऊय भूइकम्मे पसिणापसिणे निमित्तमाजीवी । इडिरससायगुरुओअमिओगं भावणं कुणइ ॥१॥" कौतुकं सौभाग्याद्यर्थ स्नपनकं, भूतिकर्म ज्वरितादिभूतिदानं, प्रश्नाप्रश्नं स्वमविद्यादि, 'सलिंगाणं ति रजोहरणादिसाधुलिङ्गवतां, किंविधानामित्याह'दंसणवावण्णाणं'ति दर्शनं सम्यक्त्वं व्यापन्नं-प्रभ्रष्टं येषां ते दर्शनव्यापन्नास्तेषां, निवानामित्यर्थः, देवलोएसु उववजमाणाणं'ति, अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्ते इति प्रतिपादितं, विराहियसंजमाणं जहन्नेणं भवणवासीसु, उक्कोसेणं सोहम्मकप्पेत्ति इह कश्चिदाह-विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते ?, द्रौपद्याःसुकुमारिका ॥१८॥ | भवे विराधितसंयमाया ईशानोत्पादश्रवणात इति, अत्रोच्यते, तस्याः संयमविराधना उत्तरगुणविषया बकुशत्वमात्रकारिणी, न स्थूल பாயும் பாம் பதிப்பாதிப்பால் பாதிப்பாயா மாயORE) பாாபாலோ
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy