SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीभगवतीसूत्रम् S " |॥१०॥" किं संसार एव जीवस्थानं उत मोक्षेऽपि इत्याशङ्कायां पृच्छामाह-'अंतकिरियंति (सू०२५) कर्मणामन्तो-विनाशस्तस्य | क्रिया अन्तक्रिया तां, मोक्षप्राप्तिलक्षणामिति, 'अंत किरियापयं ति, तच्च प्रज्ञापनाविंशतितमं पदं नेतव्यं, तच्चेदम्-'जीवे णं | भंते ! अंतकिरियं करेजा ?, गो! अत्थेगइए करिजा, अत्थेगइए नो, एवं णेरइए जाव वेमाणिए' भव्यः कुर्यात, नेतर इति, 'नेरइए णं भंते ! णेरइएसु वदृमाणे अंतं करेजा ?, गो० ! नो इणमढे समडे' इत्यादि, नवरं 'मणुस्सेसु अंतं करेजा,' मनुष्येषु वर्तमानो, नारको मनुष्यीभृत इत्यर्थः । कर्मवशादन्तक्रियाया अभावे केचिजीवा देवेषूत्पद्यन्ते अतस्तद्विशेषमाह-'अह भंते! इत्यादि (सू०२६) व्यक्तं, नवरमथेति परिप्रश्नार्थः, असंजयभवियदव्वदेवाणं'ति, इह प्रज्ञापनाटीका लिख्यते-असंयता:चारित्रशून्याः भव्या-देवत्वयोग्याः अत एव द्रव्यदेवाः, ते मिथ्यादृष्टयः अभव्या भव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, ते ह्यखिलक्रियाप्रभावादेवोपरिमोवेयकेषु उत्पद्यन्ते इति, असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात् , ननु ते कथमभव्या भव्या वा श्रमणगुणधारिणः स्युः, अत्रोच्यते, तेषां महामिथ्या| दर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभृतिपूजासत्कारसन्मानदानान् साधूनवलोक्य तदर्थ प्रवज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा स्यात् , ततश्च ते यथोक्तक्रियाकारिण इति, तथा 'अविराहियसंजमाण'ति, अभग्नचारित्राणां, सज्वलनकषायचतुष्कसामर्थ्यात् प्रमत्तगुणस्थानकाद्वा स्वल्पमायादिदोषसम्भवेऽप्यनाचरितचारित्रघातानामित्यर्थः, तथा 'विराहियसंजमाणं'ति, तद्विपरीतानां, 'अविराहियसंजमासंजमाणं'ति, अभग्नदेशविरतिश्राद्धानां, 'विराहियसंजमासंजम'त्ति तद्विपरीतानां, 'असण्णीणं' | असंज्ञिनां दर्दुरमत्स्योरगादीनां सम्मछिमानां-मनोलब्धिरहितानामकामनिर्जरावता, 'तावसाणं ति तापसानां पतितपत्राद्युपभो
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy