SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीभग-। १ शतके पती सूत्रम इमंमि समयंमि । ते ठितिकालस्संतो जम्हा सव्वे खविजंति ॥५॥" 'सव्वत्थोवे असुष्ण'त्ति, नारकाणामुत्पादोद्वर्तनाविरहकालस्योत्कर्षतोऽपि १२ मुहूर्त्तप्रमाणत्वात् , 'मिस्सकाले अणंतगुण'त्ति मिश्राख्यो विवक्षितनारकजीवनिर्लेपनाकालोऽशून्यकालापेक्षया २ उद्देशः अनन्तगुणः स्यात्, यतोऽसौ नारकेतरभवेष्वागमनगमनकालः, स च त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्ननन्तगुणः स्यात् , वनस्पत्यादिगमनागमनानामनन्तत्वात् , स च नारकनिर्लेपकालो वनस्पतिस्थितेरनन्तभागे वर्तते, उक्तं च-'थोवो असुन्न-1 कालो सो उकोसेण वारसमुहुत्तो। तत्तो य अणंतगुणो मीसो निल्लेवणाकालो ॥६॥ आगमणगमणकालो तसाइतरुमीसिओ अणंतगुणो। अह निल्लेवणकालो अणंतभागे वणद्धाए ॥७॥" 'सुण्णकाले अणंतगुणे'त्ति सर्वेषां विवक्षितनारकजीवानां प्रायो | वनस्पतिष्वनन्तानन्तकालावस्थानात , एतदेव वनस्पतिष्वनन्तकालावस्थानं नारकभवान्तरकाल उत्कृष्टो देशितः समये, उक्तं च"सुण्णो य अणंतगुणो सो पुण पायं वणस्सइगयाणं । एयं चेव य नारयभवंतरं देसियं जेहूँ ॥८॥"ति, "तिरिक्खजोणियाणं सव्वत्थोवे'त्ति, स चान्तर्मुहर्त्तः, अयं यद्यपि सामान्येन तिरश्चामुक्तस्तथापि विकलेन्द्रियसम्मूर्छिमानामवसेयः, तेषामेवान्तर्मुहर्त्तविरहकालस्योक्तत्वात् , यदाह-'भिन्नमुहुत्तो विगलिंदिएमु समुच्छिमेसुवि स एव" एकेन्द्रियाणां उद्वर्तनोपपातविरहाभावेन शून्यकालाभाव एव, आह-"एगो असंखभागो वदृइ उव्वदृणोववायम्मि | एगनिगोए निचं एवं सेसेसुवि स एव ॥९॥" पृथिव्यादिषु पुनः-"अणुसमयमसंखिज्जा एगिदिय इंति य चयंति'त्तिवचनाद्विरहाभावः, मिस्सकालोऽणंतगुणो नारकवत् , शून्यकालस्तु तिरश्चां नास्त्येव, यतो वार्त्तमानिकसाधारणवनस्पतीनां तत उद्धृत्तानां स्थानमन्यन्नास्ति, 'मणुस्सदेवा जहा णेरइया' तेषामशून्यकालस्य द्वाद-10॥१७॥ शमुहूर्त्तप्रमाणत्वात् , आह च-"एवं नरामराणवि तिरियाणं णवरि णत्थि सुण्णद्धा। जं निग्गायाण तेसिं भायणमण्णं तओ नत्थि
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy