________________
श्रीभगवती
Storial amohim
१ शतके २ उद्देशः
सूत्रम्
अनादावतीतकाले 'आदिस्स'त्ति आदिष्टस्य-अमुष्य नारकादेरित्येवं विशेषितस्य कतिविधः संसारत्ति-संसारसंस्थानकाल:, अमुष्य जीवस्य अतीतकाले कस्यां गताववस्थानमासीदिति प्रश्नः, गौतम ! चतुर्विधी, नारकादिगतिभेदात् , नारकानुगतसंसाराव- स्थानकालस्विधा-शून्यकालः १ अशून्यकालः २ मिश्रकालश्च ३, तिरश्चां शून्यकालो नास्ति, तेषां द्वौ भेदौस्तः, मनुष्यदेवानां तु| | त्रिविधोऽप्यस्ति, आह च-"सुन्नोऽसुनो मीसो तिविहो संसारचिट्ठणाकालो । तिरियाण सुन्नवज्जो सेसाणं होइ तिविहोऽवि ॥१॥" तत्राशून्यकालस्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने सतीतरौ सुज्ञानौ स्यातां, तत्र वर्तमानकाले सप्तपृथिवीषु ये नारका वर्तन्ते तेषां मध्याद्यावन्न कश्चिदुद्वर्तते न वाऽन्य उत्पद्यते तावन्मात्रा एव ते आसते स कालस्तान्नारकानङ्गीकृत्याशून्य इति पठ्यते, आह | |च-"आइट्ठसमइयाणं नेरइयाणं न जाव एकोऽवि । उव्वट्टइ अन्नो वा उववज्जइ सो असुन्नो उ ॥२॥" मिश्रकालस्तु तेषामेव नार
काणां मध्यादेकादय उद्वत्ताः यावदेकोऽपि शेषस्तावन्मिश्रकालः, शून्यकालस्तु यदा त एवादिष्टसमयिका नारकाः सामस्त्येनो| इत्ताः नकोऽपि तेषां शेषोऽस्ति स शून्यकाल इति, आह च "उव्वट्टे एकमिवि ता मीसो धरइ जाव एकोऽवि। निल्लेविएहिं सव्वेहिं | वट्टमाणेहिं सुन्नो उ ॥३॥" इदं मिश्रनारकसंसारावस्थानकालसूत्रं न तमेव नारकभवमङ्गीकृत्य प्रवृत्तं, अपि तु वार्त्तमानिकनारकजीवानां गत्यन्तरगमनेन तत्रैवोत्पत्तिमाश्रित्योक्तं, यदि पुनस्तमेव नारकभवमङ्गीकृत्येदं सूत्रं स्यात् तदाऽशून्यकालापेक्षया | मिश्रकालानन्तगुणता सूत्रोक्ता न स्यात् , आह च-"एवं ते पुण जीवे पडुच्च सुत्तं न तब्भवं चेव । जइ होज तब्भवं तो अणंतकालो न संभवइ ॥४॥" कस्मादिति चेत् , उच्यते, ये वार्त्तमानिका नारकाः ते स्वायुष्ककालस्यान्ते उद्वर्त्तन्ते, असङ्ख्यातमेव च तदायुः, अत उत्कर्षतो द्वादश मौहूर्तिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वाभावप्रसङ्गादिति,आह च-"किं कारणमादिट्ठा नेरइया ? जे