SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीभग १२ श. लघुवृत्ती Male उद्देश: देवानां जघन्यं 'अंतोमुहुत्तंति योऽन्तर्मुहूर्तावशेषायुश्चारित्रं प्रतिपद्यते तदपेक्षमिदमिति, 'देसूणा पुवकोडि'त्ति यो देशोन| पूर्वकोट्यायुश्चारित्रं प्रतिपद्यते तदपेक्षमिदमिति, ऊनता च पूर्वकोट्या अष्टभिर्वः, अष्टवर्षस्य प्रव्रज्याहत्वात् , यच्च षड्वर्ष त्रिवर्षों | वा प्रबजितः अतिमुक्तको वज्रखामी वा तत्कादाचित्कमिति न सूत्रावतारीति, 'बावत्तरि'त्ति श्रीवीरस्य 'चउरासी'ति श्रीऋषभस्य । भावदेवानां 'दस वाससहस्साईति यथा व्यंन्तराणां, 'तेत्तीसं'ति सर्वार्थसिद्धदेवानां ।। अथ तेषामेव विकुर्वणामाह'भवियदव्वदेवे णं'ति(सू. ४६४)भव्यद्रव्यदेवो मनुष्यः पञ्चेन्द्रियतिर्यग्वा लब्धिसम्पन्नः एकत्वं-एक रूपं प्रभुः-समथों विकुर्वयितुं 'पुहुत्तंति नानारूपाणि, देवाधिदेवास्तु सर्वथौत्सुक्यवजितत्वान्न विकुर्वते शक्तिसद्भावेऽपीति, अत उच्यते-'नो चेव णं संपत्तीए'त्ति वैक्रियरूपसम्पादनेन न विकुर्वणशक्तिरस्ति, तल्लब्धिमात्रस्य विद्यमानत्वात् ॥ अथ तेषामेवोद्वर्त्तनामाह-'भविय|दवेत्यादि (सू. ४६४) भविकद्रव्यदेवानां भाविदेवत्वात् नारकादिभवत्रयनिषेधः, नरदेवसूत्रे तु 'नेरइएसुत्ति अत्यक्तकाम| भोगा नरदेवा नरकेघृत्पद्यन्ते, शेषत्रये तु तनिषेधः, तत्र च यद्यपि केचिच्चक्रवत्तिनो देवेघृत्पद्यन्ते तथापि ते नरदेवत्वत्यागेन धर्मदेवत्वप्राप्ताविति न दोषः, 'जहा वकंतीए असुरकुमाराणं'ति असुरकुमारा बहुषु जीवस्थानेषु गच्छन्ति इतिकृत्वा तैरतिदेशः कृतः, असुरादयो हीशानांताः पृथ्व्यादिष्वपि गच्छन्ति, अथ तेषामेवानुबन्धमाह-'भवियदव्य'त्ति भव्यद्रव्यदेव इत्यमुं पर्यायमत्यजनित्यर्थः 'जच्चेव'त्ति एवमनेन न्यायेन यैव स्थितिर्भवस्थितिः प्राग्वर्णिता सैवैषां संस्थितिरपि,तत्पर्यायानुबन्धोऽपीत्यर्थः, 'नवर'मिति धर्मदेवस्य जघन्येनैकं समयं स्थितिः, अशुभभावं गत्वा ततो निवृत्तस्य शुभभावप्रतिपत्तिसमयानन्तरमेव मरणादिति ॥ अथैषामेवान्तरमाह-'भविअदव्वदेवस्स णं'ति भव्यद्रव्यदेवस्यान्तरं जघन्येन दशवर्षसहस्राण्यन्तर्मुहर्त्ताधिकानि,कथं ?, भव्य ॥१८७॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy