________________
श्रीभग० लघुवृत्तौ
पर्यायस्य प्रतिपन्नकारणभावाद् देवत्वाच्युता द्रव्यदेवाः, भाविभावपक्षे तु देवतयोत्पत्स्यमानाः द्रव्यदेवाः, नरदेवाः – चक्रिणो राजानः, एवं धर्मदेवाः साधवः, देवाधिदेवा अर्हन्तः, भावदेवा देवत्वे वर्त्तमानाः, 'उप्पण्णसमत्तचक्करयणप्पहाण' त्ति उत्पनसमस्तरत्नप्रधानचक्राः, आर्यत्वान्निर्देशस्य, 'समिद्धकोस' ति समृद्धकोशाः, प्रधानभाण्डागारा इत्यर्थः । एवं देवान् प्ररूप्य तेषा| मेवोत्पादमाह - 'भेदो 'त्ति (सू. ४६१) 'जइ नेरइएहिंतो उववजंति किं रयणप्प भपुढविनेरइएहितो' इत्यादिर्भेदो वाच्यः, 'जहा वक्कंतीए' त्ति यथा प्रज्ञापनापष्ठपदे, 'असंखिज्जवासाउ'त्ति असङ्ख्यातवर्षायुष्ककर्म्मभूमिजाः पञ्चेन्द्रिय तिर्यग्नराः, | असङ्ख्यातवर्षायुषामकर्मभूमिजादीनां साक्षादेव गृहीतत्वाद्, एतेभ्यश्वोद्धृता भव्यदेवा न स्युः, भावदेवेष्वेव तेषामुत्पादात् सर्वार्थसिद्धिकास्तु भव्यद्रव्यसिद्धय एव स्युरत एतेभ्योऽन्ये सर्वे भव्यदेवतयोत्पादनीयाः । धर्मदेवसूत्रे 'नवर' मित्यादि, 'तम'त्ति षष्ठपृथ्वी तत उद्धृतानां चारित्रं नास्ति, तथा अधः सप्तम्यास्तेजसो वायोरसङ्ख्यातवर्षायुष्ककर्म्मभूमि जेभ्यः अकर्म्मभूमिजेभ्योऽन्तः |रद्वीपजेभ्यश्चोद्धृतानां मानुषत्वाभावान्न चारित्रं, ततथ न धर्म्मदेवत्वमिति । देवाधिदेवसूत्रे 'तिसु पुढवी सु'त्ति तिसृभ्यः पृथ्वीभ्य उद्धृता देवाधिदेवा उत्पद्यन्ते, 'सेसा खोडेय 'ति शेषाः - पृथिव्यो निषेधयितव्या इत्यर्थः, ताभ्य उद्धृतानां देवाधिदेवत्वस्याभावादिति, 'भावदेवाणं'ति इह च बहुतरस्थानेभ्य उद्धृता भवनवासितयोत्पद्यन्ते, असंज्ञिनामपि तेषूत्पादात्, अत उक्तं 'जहा बकंती 'ति यथा प्रज्ञापनायां भवनवासिनामुपपात उक्तस्तथाऽत्र ज्ञेयः । अथ तेषामेव स्थितिमाह 'जहन्त्रेणमंतो मुहुत्तं' ति (सू. ४६२) अन्तर्मुहूर्त्तायुषो मनुष्यादेर्देवेषूत्पादात् भव्यदेवस्य जघन्याऽन्तर्मुहूर्त्तस्थितिः, 'तिष्णि पलिओ माई ति उत्तरकुर्वादिमनुजादीनां देवेष्वेवोत्पादात् ते भव्यद्रव्यदेवास्तेषां यथोक्ता स्थितिः, 'सत्त वास' त्ति यथा ब्रह्मदत्तस्य 'चउरासी'ति यथा भरतस्य, धर्म
OGDOG POCHOCOCCOJCGBÓL SOCRAT
१२ श० ९ उद्देशः