________________
श्रीभग० लघुवृत्तौ
Dhodh
त्यर्थः, सर्वथाऽनाच्छादितत्वादिति, इह चायं भावार्थ:- षोडशभागीकृतस्य चन्द्रस्य षोडशो भागोऽवस्थित एवास्ते, ये चान्ये भागास्तान् राहुः प्रतितिथ्येकैकं भागं कृष्णपक्षे आवृणोति, शुक्ले तु विमुञ्चतीति, उक्तं च ज्योतिष्करण्डके - "सोलसभागे काऊण उडुवई हायएत्थ पण्णरस । तत्तियमित्ते भागे पुणोऽवि परिवद्धई जोन्हं ॥१॥" ति, इह तु पोड (पंचद ) शभागकल्पना कृता, व्यवहारिणां षोड| शभागस्यावस्थितस्यानुपलक्षणादिति सम्भावयाम इति । ननु चन्द्र विमानस्य पञ्चैकषष्ठिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य ग्रहत्वेनार्द्धयोजनप्रमाणत्वात् कथं पञ्चदशे दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यादिति, अत्रोच्यते, यदिदं ग्रह| विमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिकं, ततश्च राहोर्ग्रहस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये पुनर हुः - लधीयसोऽपि | राहुविमानस्य महता तमिस्रजालेन तदात्रियत इति । ननु कतिपयान् दिनान् यावत् ध्रुवराहुविमानं वृत्तमुपलभ्यते ग्रहण इव, कतिपयांश्च न तथेति किमत्र कारणं ?, अत्रोच्यते, येषु दिवसेषु अत्यर्थं न तमसाऽभिभूयतेऽसौ विशुद्ध्यमानत्वात् तेषु न वृत्तमाभाति, तथा चोक्तम्- "वदृच्छेओ कइवय दिवसे धुबराहुणो विमाणस्स । दीसह परं न दीसह जह गहणे पञ्चराहुस्स || १||” आचार्य आहअच्चत्थं न हि तमसाऽभिभूयते जं ससी विसुज्झतो । तेण न वद्यच्छेओ गहणे उ तमो तमोबहुलो ||२||” 'बायालीसाए मासा णं ति सार्द्धस्य वर्षत्रयस्योपरि चन्द्रलेश्यामावृत्य तिष्ठतीति गम्यं, नवरं उत्कृष्टतया अष्टचत्वारिंशतो संवत्सराणामिति । अथ चन्द्र| स्यैव 'ससि'त्ति यदभिधानं तदन्वर्थाभिधानायाह - 'ससी'ति (सू. ४५३) सह श्रिया वर्त्तत इति सश्रीः, 'मियंके' त्ति विमाने मृगाङ्कचिह्नत्वात् मृगाङ्कः, 'सोमे'त्ति सौम्या नीरोगा वा 'कंते' त्ति कान्तियोगात् 'सुभए'त्ति सुभगः, सौभाग्ययुक्तत्वात् | 'पियदंसण 'त्ति प्रेमकृद्दर्शनः । अथादित्यशब्दस्यान्वर्थाभिधानायाह - 'सुराइय'त्ति (सू. ४५४) सूर आदि : - प्रथमो येषां ते सूरा
११.२ श०
६ उद्देशः
॥१८५॥