________________
श्रीभग० लघुवृत्तौ
1
राहु' न्ति राहपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदशयति, चन्द्रापेक्षया च पश्चिमदिशि राहुरात्मानमुपदर्शयतीत्यर्थः, एवंविधस्वभावतायां च राहोश्चन्द्रस्य यत् स्यात्तदाह- 'जया ण' मित्यादि, 'आवरेमाणे' इत्यत्र द्विर्वचनम्, 'चिट्ठई 'त्ति तिष्ठति, 'चंदेणं राहुस्स कुच्छी भिण्ण' त्ति राहोरंशस्य मध्येन चन्द्रो गत इति कथने चन्द्रेण राहोः कुक्षिभिन्न इति व्यपदिशतीति, 'पच्चीसकई 'त्ति प्रत्यवसर्पति - व्यावर्त्तते, 'वंते'त्ति वान्तः- परित्यक्तः, 'सपक्खि सपडिदिसं' ति सपक्षं समानं दिकू यथा स्यात् सप्रतिदिक्- समानविदिक् च यथा स्यादेवं चन्द्रलेश्यामावृत्त्यावष्टभ्य तिष्ठतीत्येवं योगः, अत आवरणमात्रमेवेदं वै सिकं चन्द्रस्य राहुणा ग्रसनं, न तु कार्मणमिति । अथ राहोर्भेदमाह - 'कइविहे ण' मित्यादि, यञ्चन्द्रस्य सदैव सन्निहितः सञ्चरति स ध्रुवराहुः, आह च - " किन्हें राहुविमाणं निच्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हिट्ठा चंदस्स तं चरइ ॥ १ ॥ "त्ति, यस्तु पर्वणि पौर्णमास्यमावास्वयोश्चन्द्रादित्ययोरुपरागं कुर्यात् स पर्वराहुरिति, 'पाडिवए'ति प्रतिपद आरभ्येति शेषः, पञ्चदशभागेन स्वकीयेन पञ्चदशभागं 'चंदस्स लेस्सं 'ति विभक्तिव्यत्ययाच्चन्द्रस्य लेश्यायाः, चन्द्रविम्बसम्बन्धिनमित्यर्थः, आवृण्वन २ प्रत्यहं तिष्ठति, 'पढमाए 'ति प्रथमतिथौ 'पण्णरसेसु' त्ति पञ्चदशसु दिनेषु, अमावास्यायामित्यर्थः, 'पण्णरस भागं आवरित्ताणं चिट्ठइ' इति वाक्यशेषः, एवं यत् स्यात्तदाह - 'चरिमे 'त्यादि, चरमसमये पञ्चदशभागोपेतस्य कृष्णपक्षस्यान्तिमे काले कालविशेषे वा चन्द्रो रक्तः स्यात्, सर्वथाऽऽच्छादित इत्यर्थः, 'अवसे से' त्ति अवशेषे समये - प्रतिपदादिकाले चन्द्रो रक्तो वा विरक्तो वा स्यात्, अंशेन राहुणोपरक्तः अंशांतरेणानुपरक्तः, आच्छादितानाच्छादित इत्यर्थः, तमेव चन्द्रलेश्यापञ्चदशभागं शुक्लपक्षस्य प्रतिपदादिष्विति गम्यते उपदर्शयन् २ पञ्चदशभागेन स्वयमपसरणतः प्रकटयन् २ तिष्ठति, 'चरिमस्स यत्ति पौर्णमास्यां चन्द्रो विरक्तः स्यात्, सर्वथैव शुक्कीस्यादि
JOCHÓDÓCCIÓCSÓC JOCCOLDOE
१२ श० ६ उद्देशः