SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ ५-६ उ. गर्भव्युत्क्रमणकाले जीवशरीरस्य पञ्चवर्णादित्वात् गर्भव्युत्क्रमकाले जीवपरिणामस्य पञ्चवर्णादित्वं ज्ञेयमिति ॥ गर्भजजीववर्णादि- १२ श० विचित्र परिणाम उक्तः, अथ जीवस्यैव चित्रपरिणामत्वं यत् स्यात्तदाह- 'कम्मओ णं ति (सू. ४५१) कर्म्मणः सकाशात्, नो अकर्म्मतः-न कर्माणि विना, जीवो विभक्तिभावं विभागरूपं भावं नारकतिर्यङ्मनुष्यामरभवेषु नानारूपं परिणाममित्यर्थः परिणमति - गच्छति, तथा 'कम्मओ णं जय'त्ति गच्छति तांस्तान्नारकामरादिभावानिति जगत्- जीवसमूहः, जीवद्रव्यस्य वा विशेषो जङ्गमाभिधानः 'जगन्ति जङ्गमान्याहु' रिति वचनात् ॥ द्वादशशते पञ्चमः ॥ 'मिच्छं ते एवमाहंसु'त्ति (सू. ४५२ ) इह तद्वचनाप्रमाणकत्वात् मिथ्यात्वं मिथ्यादृष्टिप्रवचनसंस्कारोपनीतत्वाच्च, ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं, न च विमानयोर्ग्रासकग्रसनीयभावसम्भवोऽस्ति, आश्रय मात्रत्वात् नरभवनानामिव, अथेदं गृहमनेन ग्रस्तमिति दृष्टस्तद्व्यवहारः, सत्यं स खल्वाच्छाद्याच्छादकभावे सति, नान्यथा, आच्छाद्याच्छादनभावे च ग्रास विवक्षायामिहापि न विरोधः, अथ यदत्र सम्यक् तद्दर्शनायाह - ' अहं पुणे' ति खंजनं - दीपमल्लिकामलः तद्वर्णाभं, 'लाउयं'ति तुम्बकं तच्चेहापक्वावस्थं ग्राह्यमिति 'भासरासि'त्ति भस्मराशिसमं, 'आगच्छमाणे व'त्ति गत्वा प्रतिचारेण ततः प्रतिनिवर्त्तमानः, कृष्णवर्णादिना विमानेनेति शेषः, 'गच्छमाणे व 'त्ति स्वभावचारेण चरन्, एतेन पदद्वयेन स्वाभाविकी गतिरुक्ता, 'विउच्चमाणे'त्ति विकुर्वणां कुर्वन् 'परियारे'त्ति परिचारयन्- कामक्रीडां कुर्वन्, एतेन पदद्वयेन अतित्वरया वर्त्तमानो विसंस्थुलचेष्टया स्वविमानमसमञ्जसं चालयति, एतच्च द्वयमस्वाभाविक विमानगतिग्रहणायोक्तमिति, 'चंदलेसं पुरच्छिमेणं' ति स्वविमानेन चन्द्रविमानावरणे चन्द्रदीप्तेरावृतत्वाचन्द्रलेश्यां | पुरस्तादावृत्य 'पञ्चच्छिमेणं वीईवयति'त्ति चन्द्रापेक्षया अपरेण यातीत्यर्थः, 'पुरच्छि मेणं चंदे उवदंसेइ'त्ति 'पचत्थिमेणं' ॥ १८४॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy