________________
श०
श्रीभग० लघुवृत्ती
१
4.
रकाणामष्टस्पर्शत्वं, 'कम्मगं पडुच्च'त्ति कार्मणं हि सूक्ष्मपरिणामपुद्गलरूपमतश्चतु:स्पर्श, ते च शीतोष्णस्निग्धरूक्षाः, 'धम्मथिकाए' इह यावत्करणादेवं दृश्यं-'अधम्मत्थिकाए आगासत्थिकाए पुग्गलत्थिकाए अद्धासमए आवलियामुहु। इत्यादि, 'दवलेसं पडुच्च'त्ति इह द्रव्यलेश्या सवर्णा, 'भावलेसंति भावलेश्या आन्तरः परिणामः, इह च कृष्णलेश्यादीनि परिग्रहसंज्ञावसानानि अवर्णादीनि जीवपरिणामत्वात् , औदारिकादिचतुर्वपूंषि च वर्णादिविशेषणानि अष्टस्पर्शाणि च, बादरपरिणा|मपुद्गलरूपत्वात् , सर्वत्र चतुःस्पर्शत्वे सूक्ष्मपरिणामः कारणं, अष्टस्पर्शत्वे बादरपरिणामः कारणं वाच्यमिति, 'सव्वदव्य'त्ति | सर्वद्रव्याणि-धर्मास्तिकायादीनि 'अत्थेगइया सव्वदव्वा पंचवण्णा' इत्यादि बादरपुद्गलद्रव्याणि प्रतीत्योक्तं, सर्वद्रव्यमध्ये | कानिचित् पञ्चवर्णादीनीति भावार्थः, 'चउफासा' इत्येतच्च पुद्गलद्रव्याण्येव सूक्ष्माणि प्रतीत्योक्तं, एगगंधे'त्यादि च परमाण्वादि द्रव्याण्याश्रित्योक्तं, यदाह परमाणुद्रव्यमाश्रित्य-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्चे॥१॥"ति, स्पर्शद्वयं च सूक्ष्मसम्बन्धिनां चतुर्णा स्पर्शानामन्यतरदविरुद्धं स्यात् , तथाहि-स्निग्धोष्णलक्षणं वा स्निग्धशीतलक्षणं वा रुक्षोष्णलक्षणं रूक्षशीतलक्षणं चेति, अवणे'त्यादि च धर्मास्तिकायादिद्रव्याण्याश्रित्योक्तं ॥ द्रव्याश्रितत्वात् प्रदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रं, तत्र प्रदेशा-द्रव्यस्य निर्विभागा अंशाः, पर्यायास्तु धर्माः, ते चैवंकरणादेवं वाच्या.-'सव्वपएसा णं भंते ! कइवण्णा पुच्छा ?, गोयमा ! अत्थेगइया सव्वपदेसा पंचवण्णा जाव अट्ठफासा'इत्यादि, एवं पर्यवसूत्रमपि, इह च मूर्तद्रव्याणां प्रदेशाः पर्यवाश्च मूर्त्तद्रव्यवत् पञ्चवर्णादयः अमृर्त्तद्रव्याणां वा अमूर्त्तद्रव्यवदवर्णादय इति, अतीताद्धादित्रयं वा मूर्तत्वादवर्णादिकं ॥ 'परिणामं परिणमइत्ति (सू. ४५०) वरूपं गच्छति, कतिवर्णादिना रूपेण परिणमतीत्यर्थः, 'पंचवण्णं ति
WHAPAIMILaniesinusumantilding MARWAIIANRAILWITTIMILIATARNITIANIMATI AUmen immaamin
munity writiummittmissignme ntin
m
a mta