________________
श्रीभग
१२ श०
लघुवृत्ती
५ उद्देशः
सावुपधिः, वञ्चनीयसमीपगमनहेतुर्भावः,'नियडि'तिं नितरां करणं निकृतिः-आदरकरणेन परवञ्चनं पूर्वकृतमायाप्रच्छादनार्थ वा मायान्तरकरणं 'वलये'त्ति येन भावेन वलयमिव वक्र वचनं चेष्टा वा प्रवर्तते स.भावो वलयं 'गहणे'त्ति परवञ्चनार्थ यद्वचनजालं तद् गहनमिव गहनं ''मे'त्ति परवञ्चनाय यनिम्नताया आश्रयणं तन्नूमं 'को 'त्ति कल्कं-हिंसादिरूपं पापं तनिमित्तो यो वचनाभिप्रायः स कल्कमुच्यते 'कुरूवेत्ति कुत्सितं यथा स्यादेवं रूप्यति-विमोहयति यत् तत् कुरूपं-भाण्डादिकर्म मायाविशेष एव 'पलिउंचण'न्ति प्रतिकुञ्चनं सरलतया प्रच्छन्नस्य वचनस्याऽखश्चनं, 'झिट्ठत्ति परवञ्चनाभिप्रायेण येन जैमथं-क्रियासु मान्धमा| तनुते स भावो जैह्मथमेव 'किब्बिसे'त्ति यतो मायाकर्मणः परत्रेह च भवे किल्बिषिकः स्यात् स किल्बिष एव 'आयरण'त्ति यतो मायाविशेषादादरणं-अभ्युपगमं कस्यापि वस्तुनः कुर्याद् असावादरणं, ताप्रत्ययस्य स्वार्थिकत्वात् , आचरणता वा परप्रतारणाय विविधक्रियाकरणं आचरणं 'गृहणया' गृहनं-गोपायनं स्वरूपस्य, वश्चणयावश्चनं परप्रत्यवतारणं.'साइजोगे'त्ति अविश्रम्भसम्बन्धः, सातिशयेन द्रव्येण निरतिशयस्य योगस्तत्प्रतिरूपकरणमित्यर्थः १५, मायैकार्थाः शब्दाः। 'लोभेत्ति सामान्यं, | इच्छादयस्तु तद्विशेषाः, तत्रेच्छा-अभिलाषमात्रं मूर्छा-संरक्षणानुबन्धः, काङ्क्षा-अप्राप्तार्थाशंसा गहित्ति गृद्धिः-प्राप्तार्थेष्वासक्तिः 'तण्ह'त्ति तृष्णा-प्राप्तार्थानामव्ययेच्छा 'भिज्झित्ति भिध्या-अभिव्याप्त्या विषयचिन्तनं, तदेकाग्रत्वमभिध्या पिधानादिवदकारलोपात भिध्या 'अभिज्झित्ति न मिध्या अभिध्या-भिध्यासदृशं भावान्तरं दृढाभिनिवेशः, अमिध्यानलक्षणत्वात् तस्याः, अहढाभिनिवेशस्तु अभिध्या, चित्तलक्षणत्वात् , तस्याः, ध्यानचित्तयोस्त्वयं विशेषः-'जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं'ति, 'आसासणय'ति आशंसनं-मम पुत्रस्य शिष्यस्य वेदमिदं च भूयादितिरूपा आशीः, पत्थण'न्ति, प्रार्थनं-परं प्रति इष्टार्थयाजा