________________
श्रीभग
१२ श. ५ उद्देशः
'पाणाइवाए'त्ति (सू. ४४८) प्राणातिपातजनितं चारित्रमोहनीयकम्मोपचारात् प्राणातिपात एव, एवमुत्तरत्रापि, तस्य च पुद्गलत्वोपचारात् प्राणातिपात एव, एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वात् वर्णादयः स्युरत उक्तम् 'पंचवण्णेत्ति, आह च- "पंच रस पंचवण्णेहि, परिणयं दुविहगंधचउफासं। दवियमणंतपदेसं सिद्धेहिं अणंतगुणहीणं ॥१॥"ति 'चउफास'त्ति स्निग्ध १] रूक्ष २ शीत ३ उष्णाख्याः ४ स्पर्शाः सूक्ष्मपरिणामपरिणतपुद्गलानां स्युः, सूक्ष्मपरिणामं च कर्मेति, 'कोहि'त्ति क्रोध इति सामान्यनाम, कोपादयश्च तद्विशेषाः, तत्र कोपः-क्रोधोदयात् स्वभावाचलनमात्रम् , रोपः-क्रोधस्यैवानुबन्धो दोषः-आत्मनः परस्य वा दूषणमेतच्च क्रोधकार्य द्वेषो वा-अप्रीतिमात्रं, अक्षमा-परकृताऽपराधस्य असहनं सवलनो-मुहुः २ क्रोधाग्निना ज्वलनं, कलहोमिथोऽसमञ्जसभाषणं चाण्डिक्य-रौद्राकारकरणं, भण्डनं-दण्डादिभियुद्धं विवादो-विरुद्धवचनानि १०, एतानि क्रोधकार्याण्येव, क्रोधैकार्था वा एते शब्दाः। मान इति सामान्यनाम, मदादयस्तु तद्विशेषाः, तत्र मदो-हर्षमानं दो-दृप्तता, स्तम्भो-अनम्रता गर्वः-शौण्डीर्य 'अत्तुक्कोसे'त्ति आत्मनः परेभ्यः सकाशात् गुणेन उत्कर्षणं-उत्कृष्टताभिधानं, परपरिवादः-परेषामप्यवर्णवदनं, परपरिपातो वा गुणेभ्यः परिपातनमिति, 'उक्कोसे'ति उत्कर्षण-उत्कृष्टताकरणं आत्मनः परस्य वा क्रियया उत्क्रोशनं वा-प्रकाशनमभिमानात् स्वसमृद्ध्यादेर्वा 'अवक्कोसे'त्ति अपकर्षणमवकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्या
वर्त्तनमिति, अप्रकाशो वाभिमानादेर्वेति, 'उण्णएति उच्छिन्नं नतं-पूर्वप्रवृत्तं नमनमभिमानादुन्नतं उच्छिन्नो वा नयो-नीतिरPIभिमानादेवोन्नयो, नयाभाव इत्यर्थः, प्रणतस्य मदानुप्रवेशादुन्नमनमुन्नामः,'दुन्नामे'त्ति महद्दष्टं नमनं दुर्नाम इति १२, स्तम्भा
दीनि मानकार्याणीति मानवाचका एते एकार्थाः। 'माय'त्ति सामान्यं नाम, उपध्यादयस्तद्भेदाः, तत्र उवहित्ति उपधीयते येना
॥१८॥