SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ| migraining १२ श० ४ उद्देशः नामेव तदणूनां ग्रहणं स्यादतोऽभिधीयते-अनन्तगुणोऽसाविति, तत औदारिकपुद्गलपरिवर्तननिर्वर्तनाकालोऽनन्तगुणः, यत औदारिकपुद्गला अतिस्थूराः, स्थूराणां चाल्पानामेबैकदा ग्रहणं स्यात् , अल्पतरप्रदेशाश्चैते, ततस्तद्ग्रहणेऽप्येकदा अल्प एवाणवो | गृह्यन्ते, न च कार्मणतैजसपुद्गलवत्तेषां सर्वपदेषु ग्रहणमस्त्यौदारिकशरीरिणामेव तद्ग्रहणादतो बृहतैव कालेन तेषां ग्रहणमिति, तत आनप्राणपुद्गलपरावर्तनाकालोऽनन्तगुणः, यद्यपि हि औदारिकपुद्गलेभ्य आनप्राणपुद्गलास्सूक्ष्मा बहुप्रदेशिकाश्चेति तेषामल्पकालेन ग्रहणं सम्भवति तथाप्यपर्याप्तकावस्थायां तेषामग्रहणात् पर्याप्तकावस्थायामप्यौदारिकशरीरपुद्गलापेक्षया तेषामल्पीयसामेव ग्रहणात् न शीघ्रं तद्ग्रहणमित्यौदारिकपुद्गलपरावर्त्तनिर्वर्तनाकालादनन्तगुणता आनप्राणपुद्गलपरावर्त्तनिवर्त्तनाकालस्येति, ततो मनःपुद्गलपरावर्तनिर्वर्तनाकालोऽनन्तगुणः, कथं ?, यद्यप्यानग्राणपुद्गलेभ्यो मनपुद्गलाः सूक्ष्मा बहुप्रदेशाश्चेत्यल्पकालेन तेषां ग्रहणं स्यात् तथाप्येकेन्द्रियादिकायस्थितिवशान् मनसश्चिरेण लाभात् मानसपुद्गलपरिवर्तों बहुकालसाध्य इत्यनन्तगुणः, ततोऽपि वाक्पुद्गलपरावर्तनिवर्तनाकालोऽनन्तगुणः, कथं ?, यद्यपि मनसः सकाशात् भाषा शीघ्रतरं लभ्यते, द्वीन्द्रियाद्यवस्थायां च स्यात् , तथापि मनोद्रव्येभ्योऽपि भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा ग्रहणात् ततोऽनन्तगुणो वाक्पुद्-। गलपरावर्तनिवर्त्तनाकाल इति, ततोपि वैक्रियपुद्गलपरावर्तनिवर्त्तनाकालोऽनन्तगुणो, वैक्रियशरीरस्यातिबहुकाललभ्यत्वादिति । पुद्गलपरावर्तानामेवाल्पबहुत्वमाह-'एएसि णमित्यादि (सू. ४४७) सर्वस्तोका वैक्रियपुद्गलपरावर्त्ता बहुतमकालनिर्वर्तनीयत्वात् तेषां, ततोऽनन्तगुणा वाविषयाः, अल्पतरकालनिर्वय॑त्वाद् , एवं पूर्वोक्तयुक्त्या बहुतराः क्रमेणान्येऽपि वाच्या इति ॥ द्वादशशते चतुर्थः॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy