________________
श्रीभग
लघुवृत्ती
'जाव वेमाणियाण'मित्यादि पर्यन्तिमदण्डको दर्शितः। अथौदारिकादिपुद्गलपरावर्तानां स्वरूपमाह-से केण'मित्यादि १२ श० (सू. ४४६) 'गहियाईति स्वीकृतानि 'बद्धाईति जीवप्रदेशैरात्मीकरणात् , कुत इत्याह-'पुट्ठाईति यतःप्राक्स्पृष्टानि, तनौ रेणुवत् ,
M४ उद्देशः अथवा पुष्टानि-पोषितानि अपरापरग्रहणतः 'कडाईति पूर्वपरिणाममन्तरेण कृतानि 'पट्टवियाईति प्रस्थापितानि-स्थिरीकृतानि जीवेन 'निविट्ठाईति यतः स्थापितानि ततो निविष्टानि जीवे स्वयं 'अभिनिविट्ठाईति अभिविधिना निविष्टानि, सर्वाण्यपि जीवे लग्नानीत्यर्थः, 'अभिसमण्णागयाईति अभिविधिना सर्वाणीत्यर्थः समन्वागतानि-सम्प्राप्तानि जीवेन रसानुभूतिमाश्रित्य 'परियाइयाईति पर्याप्तानि जीवेन सर्वावयवरात्तानि तद्रसादानद्वारेण 'परिणामियाईति रसानुभूतित एव परिणामान्तरमापादितानि 'निजिण्णाईति निर्जीर्णानि क्षीणरसीकृतानि 'निसिरियाईति जीवप्रदेशेभ्यो निःसृतानि, कथं ?, निसिट्ठाईति जीवेन निस्पृष्टानि स्वप्रदेशात् त्याजितानि, इहाद्यानि चत्वारि पदानि औदारिकपुद्गलग्रहणविषयाणि तदुत्तराणि च पंच स्थितिविषयाणि तदुत्तराणि चत्वारि विगमविषयाणि । अथ पुद्गलपरावर्तानां निर्वर्त्तने कालं तदल्पबहुत्वं चाह-'ओरालिय'इत्यादि. 'केवइकालस्स'त्ति कियता कालेन निर्वय॑ते ?, 'अणंताहिं उस्सप्पिणीहिंति एकस्य जीवस्य ग्राहकत्वात् पुद्गलानां चानन्तानन्तत्वात् पूर्वगृहीतानां च ग्रहणस्थागण्यमानत्वादनन्ता अवसर्पिण्य इत्यादि सूष्ठुक्तमिति,'सव्वत्थोवे कम्मणपोग्गले'त्यादि सर्वस्तोकः कार्मणपुद्गलपरावर्त्तननिर्वर्तनकालः, ते हि सूक्ष्मा बहुतमपरमाणुनिष्पन्नाश्च स्युः ततस्ते सकृदपि बहवो गृह्यन्ते, सर्वेषु नारकादिपदेषु च वर्तमानजीवस्य ते अनुसमयं ग्रहणमायान्ति इति स्वल्पकालेनापि तत्सकलपुद्गलग्रहणं स्यादिति, ततस्तैजसपुद्गलपरावर्तनकालोऽनन्तगुणो, यतः स्थूलत्वेन तैजसपुद्गलानामल्पानामेकदा ग्रहणं, एकग्रहणे चाल्पप्रदेशनिष्पन्नत्वेन तेषामल्पा