________________
श्रीभग० लघुवृत्ती
१२ श० २ उद्देशः
समागतास्तद्गृह एव प्रथमं वसतिं याचन्ते, तस्याः स्थानदात्रीत्वेन प्रसिद्धत्वादिति सा पूर्वशय्यातरा । 'सभावउ'त्ति (सू. ४४२) खमावतः पुद्गलानां मूर्तत्ववत् , परिणामेनाभूतस्य भवनेन पुरुषस्य तारुण्यवत् , 'सव्वेवि णं भंते! भवसिद्धिया जीवा' भवा-भाविनी सिद्धिर्येषां ते भवसिद्धिकाः, ते सर्वेऽपि भदन्त ! जीवाः सेत्स्यन्तीति प्रश्नः, 'हंते त्यादि उत्तरं, अयं चास्यार्थः| सर्वे भवसिद्धिका जीवाः सेत्स्यन्ति, अन्यथा भवसिद्धिकत्वमेव न स्यादिति, अथ सर्वभवसिद्धिकानां सेत्स्यमानताऽभ्युपगमे भवसिद्धिकशून्यता लोकस्य स्यात् , नैवं, समयज्ञातात् , तथाहि-सर्व एवानागतकालसमया वर्तमानतां लप्स्यन्ते 'भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्तमानत्व ॥१॥" मित्यभ्युपगमात् , न चानागतकालसमयविरहितो लोको भविष्यतीति, अर्थतामेवाशङ्कां जयन्तीप्रश्नद्वारेणास्सदुक्तसमयदृष्टान्तापेक्षया दृष्टान्तान्तरेणापि परिहर्तुमाह-'जइ णं'ति इत्येके व्याचक्षते, अन्ये तु व्याख्यान्ति-सर्वेऽपि भदन्त ! भवसिद्धिका जीवाः सेत्स्यन्ति ?, ये केचन सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव, नाभवसिद्धिक एकोऽपि, अन्यथाऽभवसिद्धिकत्वमेव न स्यादित्यभिप्रायः, हन्तेत्याधुत्तरं, अथ यदि ये केचन सेत्स्यन्ति सर्वेऽपि भवसिद्धिका एव नाभवसिद्धिक एकोऽपि इत्यभ्युपगम्यते तदा कालेन सर्वभवसिद्धिकानां सिद्धिगमनात् भव्य| शून्यता जगतः स्यादिति जयन्त्याशङ्कां परिहर्तुमाह-सव्वागाससेढि'त्ति सर्वाकाशस्य बुद्धया चतुरस्रप्रतरीकृतस्य श्रेणिः-प्रदे|शपङ्किः सर्वाकाशश्रेणिः 'परित्त'त्ति एकप्रदेशकत्वेन विष्कम्भाभावेन च परिमिता 'परिवुड'त्ति श्रेण्यन्तरैः परिवृता, स्वरूपमेतत्तस्याः। 'सुत्तत्तं साहुत्ति 'जागरियत्तं' जागरिकत्वम् , 'अहम्मि'त्ति अधर्मेण-श्रुतचारित्राभावलक्षणेन चरन्तीत्यधार्मिकाः; 'अहम्माणु'त्ति अधर्मानुगाः, अधर्ममनुगच्छन्तीत्यर्थः, 'अहम्मिति अधर्मिष्टाः 'अहम्मि'त्ति अधर्ममाख्यान्तीत्येवंशीला
॥१७९॥