________________
१२०
श्रीभग. लघुवृत्तौ
'सन्निसन्नाणं'ति सन्निषण्णानां समीपतया 'मिहो त्ति मिथः 'देवहितिगहिय'त्ति देवस्थितिविषये गृहीतार्थो-गृहीतपरमार्थों यस्स तदा 'तुंगिउद्देसए'त्ति(सू. ४३३)द्वितीयशतपञ्चमोद्देशके ।। एकादशशते द्वादशः।। इति श्री एकादशं शतं समाप्तं ॥
१ उद्देश:
अथ द्वादशशतमारभ्यते, तदुद्देशकगाथेयं-"संखे १ जयंति २ पुढवी ३ पोग्गल ४ अतिवाय ५ राहु ६ लोगे य ७।। नागे य ८ देव ९ आया १० बारसमसए दसुद्देसा ॥१॥" (*७१) 'संखेति शङ्खश्रमणोपासकविषयः १'जयन्ति'त्ति जय
त्याख्यश्राद्धीविषयः २ 'पुढवित्ति रत्नप्रभादिपृथ्वीरूपः ३ 'पुग्गलिं'त्ति पुद्गल विषयः ४ 'अइवात'त्ति प्राणातिपातादिविषयः 1५ 'राहुत्ति राहुवक्तव्यतार्थः ६, 'लोगे यत्ति लोकविषयः ७ 'नागे यत्ति सर्पविषयः ८ 'देव'त्ति देवभेदविषयः 'आय'त्ति
आत्मभेदनिरूपणार्थः१०। तत्र प्रथमे 'अस्साएमाण'त्ति (सू.४३७) ईषत् स्वादयन्तो बहु च त्यज्यन्तः इक्षुरखण्डादेरिव 'विस्साएमाण'त्ति विशेषेण स्वादयन्तोऽल्पमेव त्यज्यन्तः खजूरादेरिव 'परिभाएमाण'त्ति ददतः 'परिभुंजेमाण'त्ति सर्वमुपभुञ्जानाः; एषां पदानां वार्त्तमानिकप्रत्ययान्तत्वेऽतीतप्रत्ययान्तता द्रष्टव्या, ततश्च विपुलमशनाद्यास्वादितवन्तस्संतः, 'पक्खियं पोसह ति |पक्षे भवं पाक्षिकं पौषधं अव्यापारपौषधं 'पडिजागरमाणा' प्रतिजाग्रतोऽप्यनुपालयन्तो विहरिष्यामः-स्थास्यामः, यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्त्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थमेवेत्येके, अन्ये तु व्याचक्षतेइह किल पौषधं पर्वदिनानुष्ठानं, तच्च द्विधा-इष्टजनभोजनप्रदानादिरूपं १ आहारादिपौषधरूपं २ च, तत्र शङ्ख इष्टजनभोजनादिरूपं पौषधं कर्तुकामस्सन् यदुक्तवान् तदर्शयन्नेवमुक्तं-'तए णं अम्हे तं विउलं असणं ४ साइमं अस्साएमाणा'इत्यादि, पुनश्च शङ्ख
॥१७८॥