________________
श्रीभग लघुवृत्ती
영
மகா யாமப் பயமாகப் பாடிய பா பா பா
शेषत्रिंशत्पलरूपो मुहूत्तचतुर्थभागः, तेन चतुर्थभागेनोनाश्चतुर्भागमुहूर्तचतुर्थभागोनाश्चत्वारो मुहूर्ता यस्यां पौरुष्यां सा तथेति । 'से किं तं अहाउनिव्वत्तिकाले'त्ति (सू. ४२७) इह च 'जेणं ति येन केनचिन्नारकाद्यन्यतमेन 'अहाउयं यत्प्रकारमायुष्क-जीवितमन्तर्मुहर्तादि यथाऽऽयुष्कं निर्वतितं-निबद्धं, 'जीवो वा सरीराओ'त्ति जीवो वा शरीरात् शरीरं जीवाद्वा वियुज्यते । 'अद्धाकाले'त्ति अद्धाकालोऽनेकविधः प्रज्ञप्तः, तद्यथा-'समयट्ठयाए समयरूपोऽर्थः समयार्थस्तद्भावस्तत्ता तया, समयभावेनेत्यर्थः, एवमन्यत्रापि, यावत्करणात् 'मुहुत्तट्ठयाए' इत्यादि दृश्यं, एस णं' एपः-अनन्तरोक्तोत्सपिण्यादिकः अद्धाः 'दोहारछेएणं'ति द्वौ भारी-भागौ यत्र छेदेन द्विधा वा कारः करणं यत्तत् द्विधाभारं द्विधाकारं वा तेन 'जाहे'त्ति यदा तदा समयः, | 'समुदायसमिइति समुदाया-वृन्दानि तेषां याः समितयो-मीलनानि तासां यः समागमः-संयोगः तेन, यत् कालमानं स्यादिति गम्यते, सैकावलिका उच्यते, 'सालिउद्देसए'त्ति पष्ठशतसप्तमोद्देशके इत्यर्थः, 'मविजंति' भीयन्ते 'ठिइपयंति प्रज्ञापनापदं चतुर्थं । 'खए'त्ति क्षयः सर्वविनाशः, 'अवचए'त्ति अपचयो-देशतोऽपगमः 'दूमिय'त्ति दूमितं-धवलितं घृष्टं कोमलपाषाणादिना अत एव पृष्टं-मसृणं यत्तत्तथा 'उल्लोयचिल्लिय'त्ति विचित्र:-चित्रसहित उल्लोकः-उपरिभागो यत्र, चिल्लियं-दीप्यमानं |तलं-अधोभागो यत्र तत्तथा, 'कुंदुरुक्कतुरुक'त्ति कुंदुरुकं-चीडा तुरुकं-सिल्हकं कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्धृतः-उद्भूतस्तेनाभिराम-रम्यं, 'सुगंधवरि ति सुगन्धयः-सद्गन्धाः वरगन्धा:-पटवासा यत्र 'गंधवहित्ति गन्धद्रव्यगुटिकाकल्पे 'सालिंगण'त्ति सहालिङ्गनवा-वपुःप्रमाणोपधानेन युक्ता तत्र, 'उभउति उभयतः-शिरोऽन्तपादान्तावाश्रित्य उपधानके यत्र, 'उभउन्नए'त्ति उभयत उन्नते 'मज्झेणय'त्ति मध्ये नतं-च निम्नं गम्भीरं च महत्त्वाद् यत्तत्तथा, अथवा मध्येन
ற யாப்பா பாடyile