________________
श्रीभग लघुवृत्ती
११उद्दे०
गोलके षट्स्वपि दिक्षु निगोददेशैः स्पर्शना स्यात् तत्रोत्कृष्टपदं स्यात् , तच्च समस्तगोले-अखण्डगोलके स्यात् 'नन्नत्यत्ति नान्यत्र, खण्डगोलके न स्यादित्यर्थः, सम्पूर्णगोलकश्च लोकमध्य एव स्यादिति । ॥ एकादशशते दशमः॥ _ 'पमाणकाले'त्ति (सू. ४२३) प्रमीयते--परिच्छिद्यते येन वर्षशतादि तत्प्रमाणं स चासौ कालः प्रमाणकालस्तस्य विशेषो दिवसादिलक्षणः, आह च-दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥१॥ 'अहा|उनिव्वत्तिकाले'त्ति यथा-येन प्रकारेणायुषो निवृत्तिः-बन्धनं तथा यः कालः-अवस्थितिरसौ यथायुर्निवृत्तिकालः, नारकाद्यायु-1 | कलक्षणः, अयं चाद्धाकाल एवायुःकर्मानुभवविशिष्टस्सर्वेषामेव संसारिजीवानां स्याद् , आह च-"नेरइयदेवमणुया तिरिक्खजोणीण होइ जं जेण । निव्वत्तियमनभवे पालंति अहाउकालो सो ॥२॥" मरणकालो-मरणावसरः, अद्धाकालो त्ति अद्धा-सम| यादयो विशेषास्तद्रूपः कालः अद्धाकालः, चन्द्ररविप्रमुखक्रियाप्रधानोऽर्द्धतृतीयद्वीपसमुद्रवर्ती समयादिः, आह च-"समयावली | मुहुत्ता दिवस अहोरत्त पक्ख मासं वा । संवच्छर जुग पलिया सागर उस्सप्पि परियट्टा ॥१॥” 'अद्धपंचममुहुत्त'त्ति (सू.४२४) अष्टादशमुहूर्तस्य दिवसस्य रात्रे, चत्वारो मुहूर्ताः पञ्चममुहूर्तस्याद्धं च अर्धपश्चममुहूर्ताः, नवघटिका इत्यर्थः, ततः अर्द्धपञ्चमा मुहर्ता यस्याः सा तथेति, 'तिमुहत्त'त्ति त्रयो मुहूर्त्ता यस्यां सा त्रिमुहूर्ता, पद्घटिका इत्यर्थः, 'कइभागमुहुत्तभागेणं ति कतिभागमुहर्त्तभागेन, कतिथेन मुहूतांशेनेत्यर्थः, 'बावीससयमुहुत्तभागेणं'ति इह अर्द्धपश्चमानां-सार्द्धचतुर्मुहूर्तानां त्रयाणां च मुहर्तानां विशेषः सार्की मुहूर्तः, स च त्र्यशीत्यधिकदिवसशतेन वर्धते हीयते च, कथं ?, उच्यते, स च साद्धों मुहत्तों घटीत्रयप्रमाणो जैनटिप्पनके षण्माससत्कव्यशीत्यधिकशतदिनरूपभागतया स्थाप्यते, तत्र मुहूर्ते घटीद्वयमिते द्वाविंशत्यधिकं भाग
Milkamamalini MilmIONSHAMInnolemand RANICHAR INSIDHA
downindian