SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती ११० उद्दे येत्यर्थः, जाव कलिय'त्ति यावत्करणादिदं दृश्यम् , 'संगयगयहसियभणियचिट्ठियविलासललियसलावनिउणजुत्तोवयारकलिय'त्ति, 'बत्तीसइविहस्स नहस्स'त्ति द्वात्रिंशद् विधा-भेदा यस्य नाट्यस्य, तत्र ईहामृगऋषभतुरगनरमगरविहगवालगकिन्नरादिभक्तिचित्रो नामैको नाट्यविधिः, एवमन्येऽप्येकत्रिंशद्विधयो राजप्रश्नकृतानुसारतो वाच्याः। 'लोगस्सणं भंते! एगंमिति (सू.४२१) अस्य व्याख्या-यथा किल एतेषु त्रयोदशप्रदेशकानि दिग्दशकस्पर्शानि त्रयोदश द्रव्याणि स्थितानि, तेषां च प्रत्याकाशप्रदेशं त्रयोदश २ प्रदेशाः स्युः, एवं लोकाकाशदेशे अनन्तजीवावगाहेनैकैकस्मिन्नाकाशप्रदेशे अनन्ता जीवप्रदेशाः स्युः । (सू. ४२२) लोके च सूक्ष्मा अनन्तजीवात्मका निगोदाः पृथ्व्यादिसर्वजीवासङ्ख्येयकतुल्याः सन्ति, तेषां चैकैकमिन्नाकाशप्रदेशे जीवप्रदेशा अनन्ताः स्युः तेषां च जघन्यपदे एकत्राकाशप्रदेशे सर्वस्तोका जीवप्रदेशाः, तेभ्यश्च सर्वजीवा असङ्ख्येयगुणाः, उत्कृष्टपदे पुनस्तेभ्यो विशेषाधिका जीवप्रदेशा इति, अयं च सूत्रा- . र्थोऽमृभिवृद्धोक्तगाथाभिर्भावनीयः-'लोगस्सेगपएसे, जहण्णयपयम्मि जियपएसाणं । उक्कोसपदे | य तहा सव्वजियाणं च के बहुया? ॥१॥” इति प्रश्नः, उत्तरं पुनरत्र-'थोवा जहण्णपदे जिवप्पदेसा जिया असंखगुणा । उक्को| सपयपदेसा ततो विसेसाहिया भणिया।॥२॥" अथ जघन्यपदमुत्कृष्टपदं चोच्यते-तत्थ जहण्णपयं पुण लोयंते जत्थ फासणा तिदिसि । छद्दिसिमुक्कोसपयं समत्तगोलम्मि नन्नत्थ ॥३॥ तत्र-तयोर्जघन्येतरपदयोर्जघन्यपदं लोकान्ते स्यात् 'जत्थति यत्र गोलके स्पर्श|ना निगोददेशैस्तिसृष्वेव दिक्षु स्यात् , शेषदिशामलोकेनावृतत्वात् , सा च खंडगोल एव स्यादिति भावः, 'छद्दिसिंति यत्र पुन ॥१५
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy