SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती धर्मास्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति, तथापि देशः अवयव इत्यनान्तरत्वेनावयवमात्रस्यैव विवक्षितत्वानिरंशतायाश्च तत्र सत्या अप्यविवक्षितत्वाद्धर्मास्तिकायदेश इत्युक्तं । प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते-'धम्मत्थिकायस्स पदेसे'त्ति, एवमहम्मत्थिकायस्सवित्ति नो अहम्मत्थिकाए अहम्मत्थिकायस्स पदेसेइत्येवमधर्मास्तिकायसूत्रं वाच्यमित्यर्थः, अद्धासमओ नत्थि, अरूवी चउविह'त्ति ऊर्ध्वलोके अद्धासमयो नास्तीति अरूपिणश्चतुर्दा धर्मास्तिकायदेशादय ऊर्ध्वलोकस्यैकत्राकाश| प्रदेशे स्युरिति, 'लोगस्स जहा अहेलोगस्स'त्ति अधःक्षेत्रलोकस्य एकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं तल्लोकस्याप्येकत्राकाशप्रदेशे वाच्यमित्यर्थः, तच्चेदम्-'लोगस्स णं भंते ! एगम्मि आगासपदेसे किं जीवा पुच्छा ?, गोयमा ! नो जीवे' त्यादि प्राग्वत् , 'अहो|लोयखित्तलोये अणंता वण्णपज्जवत्ति अधःक्षेत्रलोके अनन्ता वर्णपर्यवाः, एकगुणकालादीनामनन्तगुणकालकाद्यवसानानां पुद्गलानां तत्र भावात् , अलोकसूत्रे 'नेवत्थि गुरुलहपज्जवत्ति गुरुलघुपर्यवोपेतद्रव्याणां पुद्गलादीनां तत्राभावात् । 'पुरस्थाभिमुहे'त्ति (म. ४२०) मदपेक्षया 'आसत्तमकुलवंसे'त्ति कुलरूपो वंशःप्रहीणः स्यात् , आसप्तमादपि वंशात् , सप्तमं वंशं | यावदित्यर्थः 'गयाओ से अगए असंखेजइभागे'त्ति ननु पूर्वादिषु दिक्षु प्रत्येकमर्द्धरज्जुप्रमाणत्वाल्लोकस्योर्ध्वाधश्च किश्चि|न्यूनाधिकसप्तरज्जुत्वात् तुल्यया गत्या गच्छतां देवानां कथं षट्सु दिक्षु गतं क्षेत्रं असङ्ख्यातभागमानं अगतात्तु गतमसङ्ख्यात|गुणमिति, क्षेत्रवैषम्यादिति भावः,अत्रोच्यते-घनचतुरस्त्रीकृतलोकस्यैव कल्पितत्वात् न दोषः, ननु यद्युक्तखरूपयाऽपि गत्या गच्छन्तो देवा लोकान्तं बहुनापि कालेन न लभन्ते तदा कथमच्युतात जिनजन्मादिषु द्रागवतरन्ति, बहुत्वात् क्षेत्रस्य, अल्पत्वादवतरण| कालस्येति, सत्यम् , किन्तु मन्देयं गतिः जिनजन्माद्यवतरणगतिश्च शीघ्रतमेति 'असम्भावपट्ठवणाए"त्ति असद्भूतार्थकल्पन A nuprelimins HMMImanna
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy