________________
श्रीभग० लघुवृत्तौ
काललोकः, आह च- 'समयावली मुहुत्ता०' ३ 'भावलोएं 'ति भावलोको द्विधा-आगमतो नोआगमतश्च तत्र आगमतो लोकशब्दार्थज्ञस्तत्रोपयुक्तो, भावरूपो लोको भावलोकः, आह च- 'उदश्य उवसमिए० 'त्ति गाहा ४ । इह नोशब्दः सर्वनिषेधे मिश्रवचने वा, आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञानरूपभावमिश्रत्वात् औदयिकादिभावलोकस्येति, 'अहेलो एत्ति अधोलोकरूपः क्षेत्रलोकः, इहाष्टप्रदेशो रुचकः तस्याधस्तन प्रतराधो नवयोजनशतानि यावत्तिर्यग्लोकः ततोऽधःस्थितत्वादधोलोकः स रत्नप्रभादिकः सप्तरज्जुप्रमाणः, 'तिरियलोय'त्ति रुचकापेक्षयाऽध उपरि च नव नव योजनशतमानस्तिर्यगुपत्वात्तिर्यग्लोकः तद्रूपः क्षेत्रलोकः, 'उडलोय'त्ति तिर्यग्लोकस्योपरि देशोनसप्तरज्जुमित ऊर्ध्वलोकः क्षेत्रोर्ध्वलोकः 'तप्पागार 'ति तप्र उडुपकः 'उड्डुमुइंगाका| रत्ति ऊर्ध्वमृदङ्गाकार संस्थितः, शरावसम्पुट इत्यर्थः, 'सुपइडगसंठिय'त्ति सुप्रतिष्ठकं -स्थापनकं तच्चेहारोपितवारकादि गृह्यते, तत्संस्थानसंस्थितः, तस्मिन् लोके केवली 'जीवे अजीवे विजाणइ तओ पच्छा सिज्झइ जाव अंतं करेइ' त्ति 'झुसिरगोलसंठिए 'ति अन्तः शुषिरगोलकाकारः अलोकः, स्थापना चेयम्'नवरं अरूवी 'त्ति अधस्तिर्यग्लोकयो रूपिणस्सप्तविधाः प्राग् उक्ताः . धर्माधर्माकाशास्तिकायानां देशाः ३ प्रदेशाश्च ३ काल इत्येवं, ऊर्ध्वलोके तु रविप्रकाशाभिव्यङ्ग्यः कालो नास्ति, अधस्तिर्यग्लोकयोरेव रविप्रकाशभावात् अतः षडेव ते इति, 'जहा बीयसए'त्ति यथा द्वितीये शते अत्थीतिनाम्नि दशमोदेशके इत्यर्थः, 'लोगागासे' त्ति लोकाकाशे विषयभूते जीवादय उक्ता एवमत्रापीत्यर्थः, नवरमिति केवलमयं विशेषः, तत्रारूपिणः पञ्चविधा उक्ताः इह तु सप्तविधा वाच्याः, तत्र हि लोकाकाशमाधारतया विवक्षितं अत्र तु न अत आकाशभेदा अध्याधेयास्स्युरिति सप्त, ते चैवम्-धर्मास्तिकायदेशस्तु न स्यात्, धर्मास्तिकायस्यैव तत्र भावात्, धर्मास्तिकायप्रदेशाश्च सन्ति, तद्रूपत्वाद्धर्मास्तिकायस्येति द्वयं २, एवमध
SÚCSÓLIDOSÚCSÓC :>>6506 10CES
११ श० १० उद्दे.