SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ पुद्गलद्रव्याणि 'अवन्नाई' ति धर्मास्तिकायादीनि 'अन्नमन्नबद्धाई 'ति मिथोगाढा श्लेषाणि ५, पुट्ठाई मिथो आगाढा श्लेषाणि, 'घडत्ताए' अन्योऽन्यघटतया - सम्बद्धतया तिष्ठन्ति, 'तावसावसह 'त्ति तापसावसथः - तापसमठः । यथौपपातिके (सू. ४१८) सिद्ध्यादिखरूपमुक्तं तथाऽत्रापि वाच्यं, सङ्ग्रहगाथामाह- 'संघयणं संठाणं उच्चत्तं आउयं च परिवसण' न्ति, तत्र संहननमुक्तमेव, संस्थानानां षण्णामन्यतरस्मिन् सिध्यन्ति, उच्चत्वे जघन्यतस्तप्तरत्निमिते, सप्तहस्तप्रमाणे इत्यर्थः, उत्कृष्टतः पञ्चधनुः शतिके, आयुषि जघन्यतस्साधिकाष्टवर्षे उत्कृष्टतः पूर्वकोटीमाने, परिवसना पुनरेवं- रत्नप्रभादिपृथ्वीनां सौधर्मादिस्वर्गाणां ईषत्प्राग्भारान्तानां क्षेत्राणामधो न परिवसन्ति सिद्धाः, किन्तु सर्वार्थसिद्ध विमानोपरितनभागादूर्ध्वं योजनानि १२ व्यतिक्रम्येषत्प्राग्भारा नाम पृथ्वी ४५ लक्षयोजनमाना आयामविष्कम्भाभ्यां श्वेताऽस्ति तदुपरि योजने लोकान्तस्स्यात्, तद्योजनस्योपरितनगव्यूतोपरिषड्भागे सिद्धास्तिष्ठन्ति एवं सिद्धिगण्डिका- सिद्धखरूपवाच्यपद्धतिरोपपातिक प्रसिद्धाऽध्येया ॥ एकादशशते नवमः ॥ . 'दव्वलोए 'ति (सू. ४२० ) द्रव्यलोक आगमतो नोआगमतश्च द्विधा, तत्रागमतो लोकशब्दार्थज्ञस्तत्रानुपयुक्तः, 'अनुपयोगो द्रव्य मिति वचनात् नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात् त्रिधा, तत्र लोकशब्दार्थज्ञस्य शरीरं मृतावस्थं ज्ञानापेक्षया भूतलोकपर्यायत्वेन घृतकुम्भवत् लोकः, स च ज्ञशरीररूपो द्रव्यतो लोको ज्ञशरीरद्रव्यलोकः, नोशब्दश्च सर्वनिषेधे, तथा लोकशब्दार्थं ज्ञास्यति यस्य शरीरं सचेतनं भाविलोकभावत्वेन मधुघटवत् स भव्यशरीरद्रव्यलोकः, इहापि बोशब्दो निषेधार्थः, ज्ञशरीरभव्यशरीरव्यतिरिक्तश्च द्रव्यलोकः द्रव्याण्येव धर्मास्तिकायादीनि, यदुक्तं - 'जीवमजीवे रूवमरूवि'त्ति गाहा ( आव०) १ 'खेत्तलोए'त्ति क्षेत्ररूपो लोकः क्षेत्रलोकः, आह च- 'आगासस्स पएसा उड' ति गाहा २ । 'काललोए' समयादिकालरूपो लोकः ११ श० १० उद्दे० ॥१७१ ॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy