________________
श्रीभग० लघुवृत्तौ
यिकत्वे द्वितीयमुत्पलत्वे ततः परं मनुष्यादिभवं गच्छेदिति, 'कालादेसेणं जहण्णेणं दो अंतोमुहुत्त 'ति पृथ्वीवेनान्तर्मुहूर्त्त पुनरुत्पलत्वेनान्तर्मुहूर्त्तमिति कालादेशेन जघन्यतो द्वे अन्तर्मुहूर्ते, एवं द्वीन्द्रियादिषु ज्ञेयं, 'उक्कोसेणं अट्ठभव'त्ति चत्वारि पञ्चे न्द्रियतिरश्चः चत्वारि चोत्पलस्येत्यष्टौ भवग्रहणान्युत्कर्षत इति, 'उक्कोसेणं पुत्र्वकोडीपुहुत्तं त्ति चतुर्षु पञ्चेन्द्रियतिर्यग्भवग्रहणेषु चतस्रः पूर्वकोट्यः उत्कृष्टकालस्य विवक्षितत्वेन, उत्पलकायोद्वृत्त जीव योग्योत्कृष्टपञ्चेन्द्रियतिर्यस्थितेर्ग्रहणात् उत्पलजीवितं त्वेतास्वधिकमित्युत्कृष्टतः पूर्वकोटीपृथक्त्वं स्यादिति, एवं जहा आहारुद्देसए' 'वणस्सइकाइयाण' मित्यादि, अनेन च यदतिदिष्टं तदिदं - 'खेतओ असंखेजपदेसोगाढाई कालओ अण्णतरकालट्ठियाई भावओ वण्णमंताई' इत्यादि, 'सव्वष्पणयाइए'त्ति नवरं 'नियमा छद्दिसं' त्ति पृथ्वीकायिकादयः सूक्ष्मतया निष्कुटगतत्वेन स्यात्तिसृषु स्याच्चतसृषु दिक्षु इत्यादिना प्रकारेणाहारमाहारयन्ति, उत्पलजीवास्तु बादरत्वेन तथाविधनिष्कुटेष्वभावात् षट्सु दिक्षु आहारयन्तीति । 'वर्कतीए'त्ति प्रज्ञापनापष्ठपदं 'उच्चहणा' उद्वर्त्तनाधिकारे, तत्रेदमेवं सूत्रं - 'ण णरए उववअंति, मणुएसु उव०, नो देवेसु उव०, 'उप्पलकेसरत्ताए 'त्ति इह केसराणि - कर्णिकापरितोऽवयवाः, 'उप्पलकण्णियत्ताए'त्ति कणिका - बीजकोशः, 'उप्पलथिभगत्ताए 'त्ति विभागावयवतः पत्राणि प्रभवन्ति ॥ एकादशशते प्रथमः ॥
सालूकोद्देशकादयस्तप्तोद्देशकाः प्राय उत्पलोदेशकसमाः विशेषः पुनर्यो यत्र स तत्र सूत्रसिद्ध एव, नवरं पलाशोदेशके यदुक्तं 'देवेसु न उववज्जंति' (सू. ४१०) तस्यायमर्थः - उत्पलोद्देशके हि देवेभ्य उद्वृत्ता उत्पद्यन्ते इत्युक्तमिह तु ते पलासे नोत्पद्यन्ते इति वाच्यं, अप्रशस्तत्वात्, यतस्ते प्रशस्तेष्वेव उत्पलादिवनस्पत्यादिषूत्पद्यन्ते । तथा 'लेसासु'त्ति लेश्याद्वारे इदं वाच्यं, यदा
CHOLLOLD BOLLOLOLO
११ श० १ उद्देशः