________________
श्रीभग
११ श० १ उद्देशः
लघुवृत्ती
विकल्पाः, स्थापना च 'अ११ अ ३ ३ एवमेकयोगाः ४, एवं द्विकयोगाः ४ अब १ बं १, अब ३६ १, अ१बं ३, अ ३ ३ । वेदनीये सातासाताभ्यां पूर्ववदष्टौ भङ्गाः, इह च सर्वत्र प्रथमपत्रापेक्षया एकवचनान्तता, ततः परं तु बहुवचनान्तता, | वेदना चानुक्रमोदितस्य उदीरणोदीरितस्य वा कर्मणोऽनुभवः, उदयस्त्वनुक्रमोदितस्यैवेति वेदकत्वप्ररूपणेऽपि भेदेनोदयित्वप्ररूपण-| | मिति, उदीरणाद्वारे 'नो अणुदीरग'त्ति तस्यामवस्थायां तेषामनुदीरकत्वस्थासम्भवात् , 'वेयणिजाउएसु अट्ठभंग'त्ति वेदनीये सातसातापेक्षया आयुषि पुनरुदीरकत्वानुदीरकत्वापेक्षयाऽष्टौ भङ्गाः, अनुदीरकत्वं च आयुष उदीरणायाः कादाचित्कत्वादिति, लेश्याद्वारे अशीतिर्भङ्गाः, कथं एककयोगे एकवचनेन चत्वारो, बहुवचनेन ४, द्विकयोगे एकत्वबहुत्वाभ्यां चतुर्भङ्गी, चतुर्णा च पदानां षट् द्विकयोगाः ते च चतुगुणिताः २४, त्रिकयोगे तु त्रयाणां पदानामष्टौ भङ्गाः, चतुर्णा पदानां चत्वारत्रिकसंयोगास्ते | चाष्टाभिर्गुणिताः ३२, चतुष्कसंयोगे तु षोडश भङ्गाः, सर्वमीलने अशीतिरिति, अत एवोक्तं 'गोयमा ! कण्हलेसे वे'त्यादि, वर्णादिद्वारे 'ते पुण अप्पणा अवन्न'त्ति शरीराण्येव तेषां पञ्चवर्णानि, ते पुनरुत्पन्नजीवाः 'अप्पण'त्ति स्वरूपेण अवर्णाः-वर्णादिवर्जिताः, अमूर्त्तत्वात्तेषामिति । उच्छ्वासद्वारे 'नो उस्सासनिस्सासा येत्यादि, अपर्याप्यवस्थायां, इह च २६ भङ्गाः, कथं ?, | एकयोगे एकवचनान्तास्त्रयः बहुवचनान्ता अपि त्रयः, द्विकयोगे एकत्वबहुत्वाभ्यां तिस्रश्चतुर्भङ्गीकाः इति द्वादश, त्रिकयोगे त्वष्टा| विति, एवं सर्वे २६ भङ्गाः । आहारकद्वारे 'आहारए वा अणाहारए वा' विग्रहगतावनाहारकः, अन्यथा आहारकः, तत्राष्टौ भङ्गाः प्राग्वत् , संज्ञाद्वारे कषायद्वारे चाशीतिर्भङ्गाः लेश्याद्वारवद् व्याख्येयाः, से णं भंते ! उप्पलजीवे पुढविजीवेत्यादिना अनुसंवेधस्थितिरुक्ता, तत्र 'भवादेसेणं'ति भवप्रकारेण, भवमाश्रित्येत्यर्थः, 'जहण्णे णं दो भवग्गहणाईति एकं पृथ्वीका