________________
श्रीभग
११०
लघुवृत्ती
१ उद्देशः
|१८ बंधे १९ सन्नि २० कसाइ २१ त्थि २२ बंधे य २३ ॥२॥ सन्निं २४ दिय २५ अणुबंधे २६ संवेहा २७ हार २८ ठिई २९ समुग्धाए ३० । चयणं ३१ मूलाईसु य उववाओ सव्वजीवाणं ३२॥३॥(*६६-६७-६८) एतासामर्थ उद्दे- शकार्थाधिगमगम्य इति । 'उप्पले णं भंते!'त्ति (सू०४०८) एकं पत्रं यत्र तदेकपत्रं, किसलयावस्थायां द्रष्टव्यम् , 'एगजी'त्ति | यदा ह्येकपत्रावस्थं तदैकजीवं तत् , यदा तु द्वितीयादि पत्रं तेन संश्रितं स्यात् तदाऽनेकपत्रावस्था तस्येति, बहवो जीवास्तत्रोपद्यन्ते, 'तेण परं ति ततः प्रथमपत्रात् परतः 'जे अन्ने जीवा उववजंति'त्ति येऽन्ये प्रथमपत्रव्यतिरिक्ता जीवा जीवाश्रयत्वात पत्रादयोऽवयवा उत्पद्यन्ते ते नैकजीवाः-न एकजीवाश्रयाः, किन्त्वनेकजीवा इति, अथवा ततः-एकपत्रात् परतः शेषपत्रादिष्वित्यर्थः येऽन्ये जीवा उत्पद्यन्ते ते नैकजीवाः-नैककाः, किन्त्वनेकजीवाः, अनेके इत्यर्थः, 'वतीए'त्ति प्रज्ञापनाषष्ठपदे, स चैवमुपपपातः 'जइ तिरिक्खजोणिएहिंतो उववजंति किं एगिदिजाव पंचिंदियतिरिक्खजोणिएहिंतो उववजंति ?, गोयमा! एगिदियतिरि
खजोणिएहितोऽवि उववज'ति इत्यादि, एवममुष्यभेदा वाच्याः, 'जइ देवेहिंतो किं भवणवासी'त्यादि प्रश्नः, उत्तरं तु ईशानान्तदेवेभ्य उत्पद्यन्ते इत्युपयुज्य वाच्यमित्येतेनोपपात उक्तः, 'जहण्णेणं एको वेत्यादिना तु परिमाणं, 'ते णं संखेन्जा समए समए'त्ति इत्यपहार उक्तः, एवं द्वारयोजना कार्या, उच्चत्तद्वारे-'साइरेगं जोयणसहस्संति तथाविधसमुद्रगोतीर्थकादाविंदमुच्चत्वमुत्पन्नस्यावसेयं, बन्धद्वारे 'बंधए वा बंधया वा' एकपत्रावस्थायां बन्धकः एकत्वात् , द्वयादिपत्रावस्थायां च बन्धकाःबहुत्वादिति, एवं सर्वकर्मसु, आयुष्के तु तदबन्धावस्थाऽपि स्यात् तदपेक्षया अबन्धकोऽपि अबन्धकाश्च स्युरित्येतदाह-'नवरंति इह बन्धकाबन्धकपदयोरेकत्वयोगे एकवचनेन द्वौ विकल्पो, बहुवचनेन द्वौ, द्विकयोगे तु यथायोगमेकत्वबहुत्वाभ्यां चत्वार इत्यष्टौ