________________
श्रीभग
१०.
३उद्देशः
ठाणस्स'त्ति तत्स्थानं 'अणपणियदेवत्तणं'ति अणपत्रिका-व्यन्तरनिकायास्तत्सम्बन्धि देवत्वमणपन्निकत्वं तदपि नो लप्स्ये इति ॥ दशमशते द्वितीयः॥
'आइडिएणं'ति (सू. ४००) आत्मा -स्वकीयशक्त्या अथवा आत्मन एवं ऋद्धिर्यस्यासावात्मर्द्धिकः, 'देवावासंतरा इति देवावासविशेषान् 'वीइवइत्ति व्यतिव्रजत इति 'तेण परं ति ततः परं 'परिडिए'त्ति परा परर्द्धिको वा, पमत्तं ति प्रमादिनं "विमोहित्ता पभुत्ति विमोह्य, महिकाद्यन्धकारकरणेन मोहमुत्पाद्य अपश्यन्तमेव व्यतिक्रामेदिति भावः, एवमसुरकुमारेणापि 'तिणि आलावग'त्ति अल्पर्रिकमहर्द्धिकयोरेकः समर्द्धिकयोरन्यः महर्द्धिकाल्पड़िकयोरपर इति त्रयः२,'ओहिएणं'ति सामान्यदेवेन एंवमालापकत्रयोपेतो देवदेवीदण्डको वैमानिकान्त एवापरः ३ एवं देव्योर्दण्डकोऽन्यः ४ इति ४ दण्डकाः स्युः, ॥ 'हिययस्स जगयरस यत्ति (सू. ४०१) हृदयस्य च यकृतश्च-दक्षिणकुक्षिगतोदरावयवस्य अन्तराले । 'अह भंतेति (सू. ४०२) अथेति प्रश्नान्तरार्थः, भदंत इत्यामन्त्रणे गौतमः पृच्छेत् 'आसइस्सामो' आश्रयिष्यामो वयं आश्रयणीयं वस्तु 'सह'त्ति शयिप्यामहे 'चिहिस्सामो' ऊवं स्थास्यामः,'निसियइत्ति निषीत्स्यामः, उपवेक्ष्याम इत्यर्थः,'तुयहिति संस्तारके भविष्याम इत्यादि भाषा किं प्रज्ञापनीति योगः, 'आमंतणि'त्ति आमन्त्रणी हे भदन्तेत्यादिका, 'आणवणि त्ति आज्ञापनी-कार्ये परस्य प्रवर्त्तनी, यथा घटं कुरु 'जायणीति याचनी वस्तुविशेषस्य देहीत्येवं मार्गणरूपा 'पुच्छणी यत्ति प्रच्छनी-अज्ञातस्य सन्दिग्धस्य चार्थस्य ज्ञापनार्थ प्रेरणरूपा, 'पण्णवणि'त्ति प्रज्ञापनी विनेयस्योपदेशदानरूपा "पाणिवहाउ नियत्ता हवंति दीहाउया अरोगा य। एमाई पण्णवणी पण्णत्ता वीयरागेहिं ॥१॥" 'पच्चक्खाणी ति याचमानस्य अदित्सा मेऽतो मां मा याचस्वेति प्रत्याख्यानरूपा, 'इच्छा