________________
श्रीभग० लघुवृत्तौ
यथा 'सव्वत्थोवा ओरालियसरीरस्स जहण्णिया ओगाहणा' इत्यादि ॥ दशमशते प्रथमः ॥
'संवुडस्स' (सू. ३९५) संवृतस्य सामान्येन प्राणातिपातादिविरतियुक्तस्य 'वीर'त्ति वीचिशब्दः सम्प्रयोगे, स च सम्प्रयोगो द्वयोः स्यात्, ततश्चेह कषायाणां जीवस्य च सम्बन्धो वीचिशब्दवाच्यः, ततश्च वीचिमतः कषायवतो, मतुप्प्रत्ययस्य प्राकृतत्वेन | पष्ठीलोपदर्शनात् अथवा विरूपा कृतिः - क्रिया सरागत्वात् यस्मिन्नवस्थाने तद्विकृतिर्यथा स्यादेवं 'ठिच।' स्थित्वा 'पंथे 'त्ति मार्गे 'मग्ग' त्ति मार्गतः - पृष्ठतः 'अवयक्खमाणस्स'त्ति अवकांक्षतो अपेक्षमाणस्य वा 'नो इरियावहय'त्ति न केवल योगप्रत्यया कर्म्मबन्धक्रिया स्यात्, सकापयत्वात् तस्येति, 'जस्स णं को हमाण'त्ति एवं जहेत्यतिदेशादिदं सूत्रम् - 'वोच्छिष्णा भवंति तस्स णं इरियावहिया किरिया कजति, जस्स णं कोहमाणमायालोभा अवोच्छिण्णा भवंति तस्स णं संपराइया किरिया कजह, अहासुत्तं रियं रियमाणस्स इरियावहिया किरिया कज्जइ, उस्सुत्तं रियं रियमाणस्स संपराइया किरि०' अस्य व्याख्या प्राग्वत् ॥ 'सेणं उस्मुत्तमेव 'त्ति स पुनरुत्सूत्रमेव-आगमातिक्रमणत एव रीयइ - गच्छति 'अवी 'ति अवीचिमतः - अकपायपतः अथवा |अविकृति वा यथा स्यात् । तथा 'सीओसिण' त्ति (सू. ३९६) द्विस्वभावा एवं योनिपदं निरवशेषं प्रज्ञापनानत्रमपदे ज्ञेयं । 'वेयणापयं भाणियच्चं 'ति (सू. ३९७) वेदनापदं च प्रज्ञापनापञ्चत्रिंशत्तमं ज्ञेयं ॥ 'मासिय'त्ति (सू. ३९८) मासः परिमाणं यस्या|स्सा मासिकी तां भिक्षुप्रतिज्ञाविशेषं 'जहा दसा हिं'ति यथा दशाश्रुतस्कन्धे भिक्षुप्रतिमा उक्ता तथाऽत्र वाच्याः, 'वोसिट्ठि' ति व्युत्सृष्टः स्नानादिवर्जनात् कायो येन स तथा तस्य, 'चियत्तदेहे 'ति त्यक्तो - वधबन्धाद्यावरणात्, अथवा प्रीतिविषयो, धर्मसाधनेषु प्रधानत्वाद्देहस्येति ॥ 'अकिवठाणं' ति (सु. ३९९) अकृत्यस्थानं प्रतिषेविता स्यादिति गम्यं, 'से णं'ति स भिक्षुः 'तस्स
१० श०
२ उद्देशः
॥१६६॥.