SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ HAD श्रीभग० १ उद्देश: शस्तत्रासङ्ख्यातास्ते स्युः, लोकव्यापकावस्यानिन्द्रियस्य पुनर्यद्यप्येकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथापि तत्प्रदेशपदे बहुवचनालघुवृत्तौ । न्तमेव, आग्नेय्यां तत्सदेशानामसङ्ख्यातानामवगाढत्वात् , अतः सर्वेषु द्विकसंयोगेष्वायरहितं भङ्गाद्वयमेव, एतदेवाह-'आइल्ल- विरहिओ'त्ति द्विकभङ्ग इति, विमलाए जहा जीवा अग्गेईए'त्ति विमलायामपि जीवानामनवगाहात् , “अजीवा जहा इंदाए' सहग्वक्तव्यत्वात् , 'एवं तमावित्ति विमलावत्तमा वाच्येत्यर्थः, विमलायामपि अनिन्द्रियसद्भावात् तद्देशादयो युक्ताः तमायां तु तस्यासम्भवात् कथं ते इति ?, उच्यते, दण्डाद्यवस्थं तमाश्रित्य तस्य देशो देशाश्च विवक्षया तत्रापि युक्ता एव, अथ |तमायां विशेषमाह-'नवरं'ति 'अद्धासमओ'त्ति समयव्यवहारो हि सञ्चरिष्णुसूर्यादिप्रकाशकृतः, स च तमायां नास्तीति तत्राद्धासमयो न भण्यते, अथ विमलायामपि नास्त्यसाविति कथं तत्र समयव्यवहार इति, उच्यते, मंदरावयवभूतस्फटिककाण्डसूर्यादिप्रभासङ्क्रान्तिद्वारेण तत्र सञ्चरिष्णुसूर्यादिप्रकाशभावादिति, 'ओगाहणसंठाणं'ति (सू. ३९४) प्रज्ञापनायामेकविंशतितमं पदं,। तच्चैवम्-'पंचविहे पण्णते, तंजहा-एगिदियओरालियसरीरे जाव पंचेंदियओरा० सरीरे, वाचनान्तरे त्वस्य सङ्ग्रहगाथामाह-"कइ|संठाणपमाणं पोग्गलचयणं सरीरसंजोगो। दब्बपएसप्पबहुं सरीरओगाहणाए य ॥१॥" 'कइ'त्ति कति वपूंषि ?, औदारिकादीनि ५ 'संठाण'त्ति वपुषां संस्थानं वाच्यं, यथा नानासंस्थानमौदारिकं, 'पमाणं'ति एषामेव प्रमाणं वाच्यं, यथा औदारिकं जघन्यतोऽङ्गुलासख्येयभागमात्रं, उत्कृष्टतस्तु सातिरेकयोजनसहस्रमानं, एषामेव पुद्गलचयापचयौ वाच्यौ, यथौदारिकस्य निर्व्याघातेन ६ दिक्षु, व्याघातं प्रतीत्य स्यात् त्रिदिशीति, एषां संयोगो वाच्यो, यथा यस्यौदारिकं शरीरं तस्य वैक्रियं स्यादस्तीति, एषा| मेव द्रव्यार्थतया प्रदेशार्थतया चाल्पबहुत्वं वाच्यं यथा 'थोवा आहारगसरीरा दबट्ठयाए' एषामेवावगाहनाया अल्पबहुत्वं वाच्यं, IORDARASIDAImmmmmmmmIRATIMIRI Tyralit
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy