SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती १ शतके २ उद्देशः सूत्रम् कादिपदात्मकाः षट् दंडकाः सूचिताः, तदेवं च एतेषां ७ दंडकानां यो यथाऽध्येतव्यस्तं तं तथा दर्शयन्नाह–'ओहियाणं'ति तत्रौधिकानां-पूर्वोक्तानां सामान्यानां नारकादीनां तथा सलेश्यानामधिकृतानां २ शुक्ललेश्यानां तु ३ सप्तमदंडकवाच्यानामेषां त्रयाणामेको गमः-सदृशः पाठः, सलेश्यः शुक्ललेश्यश्चेत्येवंविधविशेषणकृत एव तत्र भेदः, औधिकदंडकवदनयोः सूत्रमितिहृदयं तत्थ जस्सत्थि' इति वक्ष्यमाणपदस्येह संबंधाद्यस्य शुक्ललेश्याऽस्ति स एव तदंडकोऽध्येतव्यः, तेनेह पश्चेन्द्रियतियञ्चो मनुष्या वैमानिकाच वाच्याः, नारकादीनां शुक्ललेश्याया अभावात् , 'किण्हलेसनीललेसाणपि एको गमो' औधिक एवेत्यर्थः, विशेषमाह-'नवरं वेयणाए मायिमिच्छ० अमायिसम्म०' कृष्णलेश्यनीललेश्यदंडके वेदनासूत्रे च 'दुविहा णेरइया पण्णत्ता-सण्णिभूया असप्णिभूया यत्ति औधिकदंडकाधीतं नाध्येतव्यम् , असंज्ञिनां प्रथमपृथिव्यामेवोत्पादात् 'अस्सण्णी खलु पढम' इतिवचनात् , प्रथमायां तु कृष्णनीललेश्ययोरभावात् , तर्हि किमध्येतव्यं ?,'मायित्ति अमायित्ति' एते मायिनो मिथ्यादृष्टयश्च महावेदनाः स्युः, यतस्तेऽशुभामुत्कृष्टस्थितिं कुर्युः, प्रकृष्टायां तस्यां महती वेदना स्यात् , इतरेषां तु विपरीता । 'मणुस्सा किरियासु'त्ति मनुष्यपदे क्रियासूत्रे सरागवीतरागत्वे पठिते, ते तु कृष्णनीललेश्यदंडकयो ध्येतव्ये, कृष्णनीलोदये संयमस्य निषिद्धत्वात् , तथा | मनुष्याणां 'काउलेस्साए'त्ति कापोतलेश्याया दंडको नीलादिलेश्यादंडकवदध्येतव्यः, णवरं णेरइएत्ति नवरं नारका वेदनासूत्रे औधिकदंडकवद्वाच्याः , ते चैवं-नेरइया दुविहा पं०, तं०-संनिभू० असण्णिभूया यत्ति, असंज्ञिनां प्रथमपृथिव्युत्पादेन कापोतलेश्यासंभवात् इति, 'तेउलेस्सापम्हलेस्स'त्ति तेज पद्मलेश्ये यस्य स्यातां तमाश्रित्य यथौधिकदंडकः तथैतौ दंडकौ भणितव्यौ, नारकविकलेन्द्रियाणां तेजोवायूनां चाद्यास्तिस्र एव, भवनपति(पृथ्व्यम्बु)वनस्पतिव्यन्तराणामाद्याश्चतस्रः, पश्चेन्द्रियतिर्यङ्मनुष्याणां மாயபாப்பாமல படியாயாயாயாம் பயாபு பயாமாயாவாடியாகும் பப்பாடி பார்ப்பாமாரியாரமாயமரபியாயயாதியாக
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy