SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीभगवतीसूत्रम् २ उद्देशः तथा वर्णलेश्यासूत्रयोर्यत् पूर्वोत्पन्नानां शुभवर्णाद्युक्तं तत्तारुण्यात् , पश्चादुत्पन्नानां चाशुभवर्णलेश्यादि बाल्यादवसेयं, लोके तथैव दर्शनादिति । तथा 'संजयासंजय'त्ति संयतासंयता-देशविरताः, 'मणुस्सा णं भंते ! ते सव्वे समाहारगति ?,'नो इणडे' इत्युत्तरं, नानात्वं, ते 'आहच्च आहारेंति', आहत्य, कादाचित्कत्वं महाशरीरदेवकुर्वादिमिथुनकनरानाश्रित्य, अल्पशरीरा अभीक्ष्णम् अल्पं | च, बालानां तथैव दर्शनात् , संमार्छममनुष्याणामल्पवपुषां नित्यमाहारसंभवात् , यच्चेह पूर्वोत्पन्नानां शुद्धवर्णादि तत्तारुण्यात् संमूछिमापेक्षया वेति, 'सरागसंजय'त्ति अक्षीणानुपशान्तकषायाः, 'वीयरागसंजय'त्ति उपशान्तकषायाः क्षीणकषायाश्च, 'अकिरिय'त्ति वीतरागत्वेनारंभादीनामभावादक्रियाः, 'एगा मायावत्ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया, कजईत्ति क्रि| यते भवति, कदाचिदुड्डाहरक्षणप्रवृत्तानामक्षीणकषायत्वादिति, 'आरंभिय'त्ति प्रमत्तसंयतानां सर्वः प्रमत्तयोग आरंभ इतिकृत्वा | आरंभिकी स्याद् अक्षीणकषायत्वाच्च मायाप्रत्ययेति, 'वाणमंतर'त्ति व्यन्तरा अल्पवेदनाः स्युरसंज्ञित्वात् तेषामसुरकुमारवत् , इतरे संज्ञिनो व्यन्तरा महावेदनाः संज्ञित्वादेव, यतोऽसुरादिषु व्यन्तरान्तेष्वसंज्ञिनः संज्ञिनश्च उत्पद्यन्ते तेनैवमुक्तं-'वाणमन्तरा सण्णिभूया असण्णिभूया येति, नवरं ज्योतिष्कवैमानिकेषु त्वसंज्ञिनो नोत्पद्यन्ते अतो वेदनापदे तेषां ज्योतिष्कवैमानिकानामेवमधीयते,। नवरं वेयणाए दुविहा जोईसिया माईमिच्छ० अमाईसम्मद्दिछिउव०, तत्र मायिमिथ्यादृष्टयोऽल्पवेदनाः इतरे महावेदनाश्च शुभ| वेदनामाश्रित्येति । अथ(स)लेश्यलेश्याभेदविशेषणमाहारादिपदैनिरूपयन् दंडसप्तकमाह-'सलेस्सा णं भंते ! नेरइया सव्वे समाहार गत्ति अनेन पदेनाहार १ शरीरो २ च्वास ३ कर्म ४ वर्ण ५ लेश्या ६ वेदना ७क्रियो ८ पपाता ९ व्यपूर्वोक्तनवपदोपेतना| रकादिचतुर्विंशतिदंडको लेश्यापदविशेषितः सूचितः, तदन्ये च कृष्णलेश्यादिविशेषिताः पूर्वोक्तनवपदोपेता एव यथासंभवं नार ॥१५॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy