SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्रम् भावना चैवं पृथ्वीकायिकानामंगुलासंख्येयभागमात्रशरीरत्वेऽप्यल्पव पुस्त्वमितरच्चेतः प्रज्ञापनादवसेयं यतः 'पुढविकाइए पुढविकाइयस्स ओगाहणट्टयाए चउट्ठाणवडिए 'त्ति, ते च महाशरीरा लोमाहारतो बहुतरान् पुद्गलानाहारयन्ति, उच्छ्रसन्ति अभीक्ष्णं महाशरीरत्वादेव, अल्पशरीराणामल्पाहारोच्छ्वासत्वमल्पशरीरत्वादेव, कादाचित्कं तयोः पर्याप्त केतरावस्थापेक्षमवसेयं, तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथ्वीकायिकानां कर्मवर्णलेश्याविभागो नारकवद्वाच्यः, वेदनाक्रिययोस्तु नानात्वमित्याह - पुढ विकाइयाणं सव्वे समवेयणत्ति, 'असणि'त्ति असंज्ञिनो - मिध्यादृष्टयोऽमनस्का वा 'असण्णिभूयं 'ति असंज्ञिभूतां, असंज्ञिनां या जायते तामित्यर्थः, एतदेव व्यनक्ति- 'अणिदाए' त्ति अनिर्द्धारणया वेदनां वेदयन्ति, वेदनामनुभवन्तोऽपि न पूर्वोपात्ताशुभकर्मपरिणतिरियमिति मिध्यादृष्टित्वादवगच्छन्ति, अमनस्कत्वाद्वा मत्तमूर्च्छितादिवदिति भावना, 'माईमिच्छत्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते यदाह - "उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो । सढसीलो य ससल्लो तिरियाउं बंधए जीवो || १ ||" ततस्ते मायिन उच्यन्ते, अथवा इह माया अनन्तानुबन्धिकपायोपलक्षणमतोऽनन्तानुबन्धिकषायोदयवन्तोऽत एव मिथ्यादृष्टयो - मिथ्यात्वोदयवतिन इति, 'ताणं णियइयाओ' त्ति तेषां पृथ्वीकायिकानां नियताः पञ्चैव नतु त्रिप्रभृतयः इति निगमनं, 'जाव चउरिंदिय'त्ति इह महाशरीरत्वमितरच्च स्वस्वावगाहनानुसारेणावसेयं, आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति । 'पंचिंदियतिरिक्खजोणिया जहा णेरह' त्ति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णमाहारयन्त्युच्छ्वसन्ति चेति यदुच्यते तत् संख्यातवर्षायुषोऽपेक्ष्य, नासंख्यातवर्षायुषः, तेषां प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात्, अल्पवपुषां यत् कादाचित्कं तदपर्याप्तकत्वे लोमाहारोच्छ्वासयोरभवनेन पर्याप्तकत्वे च तद्भावेन ज्ञेयमिति, तथा कर्मसूत्रे यत् पूर्वोत्पन्नानामल्पकर्मत्वमितरेषां महाकर्मत्वं च (तत्) तद्भववेद्यायुष्कादिकर्मापेक्षया, MEROUS CONFERENCE, 2017 5200 2001 2000 शतके २ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy