________________
श्रीभगवती
सूत्रम्
हस्रस्थितिकेषु कैश्चित् पञ्चदशवर्षसहस्रस्थितिषु च उत्पत्तिः पुनर्युगपदिति ३ भङ्गः केचित् सागरोपमस्थितयः केचिदशवर्षसहस्रस्थितयः एवं विषमायुषो विषममेव चोत्पन्ना इति ४ भङ्गः, इह संग्रहगाथा - आहाराईसु समा कम्मे बन्ने तहेव लेसाए । वियणाए किरिया आउउववत्तिचभंगी ॥ १ ॥ 'असुरकुमाराणं' ति असुरकुमारप्रकरणमिदमाहारादिपदनवकोपेतं सूचितं 'जहा नेरइय'ति, तत्राहारसूत्रे नारकसमानेऽपि विशेष उच्यते, असुराणामल्पशरीरत्वं भवधारणीयापेक्षया जघन्यतोऽगुलासंख्येयभागमानत्वं महाशरीरत्वमुत्कर्षतः सप्तहस्तमानत्वं, उत्तरवैक्रियापेक्षयाऽल्पशरीरत्वं जघन्यमङ्गुलसंख्येयभागं, महाशरीरत्वं उत्कर्षतो योजनलक्षमानं, तत्रैते महाशरीरा बहुतरपुद्गलान् आहारयन्ति, मनोभक्षणलक्षणाहारापेक्षया, देवानां ह्यसौ स्यात्, एवं सौधर्मदेवानां सप्तहस्तमानतया महाशरीराणामनुत्तरसुराणां च हस्तमानतयाऽल्पशरीराणां क्रमेण वर्षसहस्रद्वयेनाहारः पक्षद्वयेनोच्छ्रासः त्रयस्त्रिंशद्वर्षसहस्राण्याहारः त्रयस्त्रिंशत्पक्षैरुच्छ्वासः 'कम्मवण्णलेसाओ परि(वण्णे) (छिल्ले) यव्वाओ' त्ति पर्यस्तयितव्याः, कर्मादीनि नारकापेक्षया वि पर्ययेण वाच्यानि इत्यर्थः, तत्र ये नारकाः पूर्वोत्पन्नास्तेऽल्पकर्मकशुद्धतरवर्णशुद्धतरलेश्या उक्ताः, असुरास्तु ये पूर्वोत्पन्नास्ते महाकर्माणोऽशुद्धवर्णलेश्याश्चेति, कथम् ?, ये हि पूर्वोत्पन्ना असुरास्ते कंदर्पाध्मातचित्तत्वात् प्रभूतमशुभं कर्म संचिन्वन्ति अतोऽभिधीयन्ते ते महाकर्माणः, अथवा बद्धायुषो ये ते तिर्यगादिप्रायोग्यकर्मबन्धनात् महाकर्माणः, तथा अशुद्धवर्णलेश्यास्ते, तेषां पूर्वोत्पनानां हि क्षीणत्वाच्छुभकर्मणः, पञ्चादुत्पन्नास्त्वबद्धायुषोऽल्पकर्माणो बहुतरकर्मणामबन्धनात् शुभकर्मणामक्षीणत्वाच्च शुभवर्णादयः स्युरिति, वेदनाविशेषश्चायम् - ये संज्ञिभूतास्ते महावेदनाः इतरे त्वल्पवेदनाः, एवं नागकुमारादयोऽपि वाच्याः, 'पुढविकाइयाण'मिति' आहारकम्मवण्णलेस्सा जहा णेरइयाणं 'ति चतुःसूत्राणि नारकसूत्राणीव पृथ्वीकायिकाभिलापेनाधीयन्ते, आहार
१ शतके २ उद्देशः
॥१४॥