________________
श्रीभगवती
सूत्रम्
सूत्रं समान स्थितिनारकानाश्रित्योक्तं, एवं वर्णसूत्रे पूर्वोत्पन्नस्याल्पकर्मतया विशुद्धो वर्णः, पञ्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धत रो वर्ण इति, एवं लेश्यासूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्या, बाह्यद्रव्यलेश्या वर्णद्वारेणैवोक्तेति, 'समवेयण'त्ति सम| वेदनाः, 'सण्णिभूय'त्ति संज्ञा - सम्यग्दर्शनं तद्वन्तः संज्ञिनः संज्ञिनो भूताः संज्ञिभूताः तद्विपरीता असंज्ञिभूता- मिध्यादृष्टयः, 'तत्थ णं'ति तत्र मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इति अहो महद्दुःखसंकटमिदमकस्मादस्माकमापतितं न कृतो जैनधर्मः सर्वकर्मक्षयकृत् अतो महावेदनास्ते, अन्ये त्वसंज्ञिभूता-मिथ्यादृष्टयः ते कृतकर्मफलमिदमित्येवमविजानन्तोऽनुपतप्तचित्ता अल्पवेदनाः स्युरिति, 'समकिरिय'त्ति समाः - तुल्याः क्रियाः - कर्मबन्धनिबन्धनभूता आरंभभिक्यादिका येषां ते समक्रियाः, 'आरंभिय'त्ति आरंभ :- पृथिव्याद्युपमर्दः स कारणं यस्याः सा आरंभिकी 'पारिग्गहिय'त्ति परिग्रहो - धर्मोपकरणवर्जवस्तुखीकारो धर्मोपकरणमूर्च्छा वा स हेतुर्यस्याः सा पारिग्रहिकी, 'मायावत्तिय'त्ति माया-अनार्जवं क्रोधादिरपि च स प्रत्ययो - निमत्तं यस्याः सा मायाप्रत्यया, 'अप्पच' ति अप्रत्याख्यानेन - निवृत्यभावेन क्रिया-कर्मबंधादिकरणमप्रत्याख्यानक्रिया, 'मिच्छादंसण 'त्ति मिथ्यादर्शनं प्रत्ययो - हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वा विरतिकषाययोगाः कर्मबंध हेतव इति प्रसिद्धिः, इह तु आरंभादयस्तेऽभिहिता इति कथं न विरोधः ?, उच्यते, आरंभपरिग्रहशब्दाभ्यां योगपरिग्रहो, योगानां तद्रूपत्वात् शेषपदैस्तु शेषबंध हेतुपरिग्रहः प्रतीयते एवेति तत्र सम्यग्दृष्टीनां चतस्र एव, मिथ्यात्वाभावात् शेषाणां तु पञ्चापि सम्यगूमिध्यात्वस्य मिध्यात्वेनैवेह विवक्षितत्वादिति । 'सव्वे समाउय'त्ति प्रश्नोत्तरं चतुर्भङ्गया स्यात्, निबद्धदशवर्षसहस्रप्रमाणायुषो युगपच्चोत्पन्नाः १ भङ्गः तेष्वेव दशवर्षसहस्रस्थितिषु नरकेषु प्रथममुत्पन्नाः अपरे तु पश्चादिति २ भङ्गः, अन्यैर्निबद्धं कैश्चिदशवर्षस
१ शतके
२ उद्देशः