SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्रम् इति प्रथमशते प्रथमोदेशकदुर्गपदविवरणं समाप्तम् || अथ द्वितीय आरभ्यते— 'जीवे णं भंते! सयंकडं दुक्खं ति ( सू० २१ ) स्वयंकृतं दुःखं, न परकृतं, वेदयतीति प्रश्नः, उत्तरं तु यदुदीर्णं तद्वेदयति, अनुदीर्णस्य कर्मणो वेदनमेव नास्ति, तत उदीर्ण वेदयति, नानुदीर्णं च, 'एवं जाव वेमाणिए' इत्यनेन चतुर्विंशतिदंडकः सूचितः, 'नेरइया णं भंते! सयंकडं दुक्ख मित्यादि । अथायुः प्रधानत्वान्नारकादिव्यपदेशस्यायुराश्रित्य दंडकद्वयं, तत्र 'एगत्तपोहत्तिय'त्ति क्वचिद्वस्तुनि एकत्वबहुत्वार्थयोर्विशेषो दृष्टो, यथा सम्यक्त्वादेरेकं जीवमाश्रित्य षट्षष्टिः सागराणि साधिकानि स्थितिकालः प्रोक्तः, नानाजीवानाश्रित्य पुनः सर्वाद्वा, 'नेरइए०' इति व्यक्तं, 'महासरीरा य अप्पसरीर'त्ति तत्र जघन्यमल्पत्वमंगुलासंख्येयभागमात्रत्वं, उत्कृष्टं तु महत्त्वं पञ्चधनुः शतमानत्वं एतच्च भवधारणीयवपुरपेक्षया, उत्तरवैक्रियापेक्षया वा जघन्यमंगुलसंख्यातभागमात्रत्वं इतरत्तु धनुः सहस्रमानत्वं, वपुर्वैषम्याभिधाने सति आहारोच्छ्वासयोर्वैषम्यं सुखप्रतिपाद्यं स्यात् तेन आहारोच्छ्वासप्रश्नयोरुत्तरमाह - ' तत्थ ण' मिति, तत्र ये महाशरीरास्ते बहुतरान् पुद्गलानाहारयन्ति, दृश्यते हि लोके बृहच्छरीरो बहूवाशी लघुशरीरश्चाल्पभोजी हस्तिशशकवन्, इदं व्यवहारत उक्तं, कोऽपि स्थूलवपुरल्पमश्नाति कोऽपि लघुवपुर्भूरि भुङ्क्ते ( तथाविध) मनुष्यवत्, उस्ससंति उच्छ्वासतया गृह्णन्ति निस्ससंति निःश्वासतया मुञ्चन्ति, 'अभिक्ख'ति अभीक्ष्णं - पौनःपुन्येनेति, 'आहच' त्ति कदाचिदाहारयन्ति कदाचिन्न, 'नेरइया णं भंते ! सव्वे समकम्म'त्ति समकर्मसूत्रे 'पुच्वोववण्णगा य पच्छोववण्णग' त्ति तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणां च बहुतरवेदनादल्पकर्मत्वं, पश्चादुत्पन्नानां च नारकाणामायुष्कादीनामल्पतराणां वेदितत्वात् महाकर्मत्वं एतच्च JŪGJJÓLJØLOCAJCDCJFJØLDÓLJQCDW ९ शतके २ उद्देशः . ॥१३॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy