SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ जणए 'ति मनस्समृद्धिकारकः, 'उंबर'त्ति उदुम्बरपुष्पवदुर्लभः 'सवणयाएं' श्रवणतायै श्रोतुमित्यर्थः, 'किमंग' त्ति किं पुनः १, अङ्गेत्यामन्त्रणे, 'अच्छाहि' आख 'बड्डिय'त्ति पुत्रपौत्रादिवृद्धिमुपनीतः कुलवंश ः- सन्तानः स एव तन्तुः दीर्घत्वसाधर्म्यात् कुलवंशतंतुस्स एव कार्य-कृत्यं कुलवंशतन्तुकार्य 'निरवयक्खे' निरपेक्षः, 'तहावि णं तं'ति तथैव तत्रान्यथा 'सारीर'ति शारीराणि मानसिकानि प्रकामदुःखानि तद्वेदनं व्यसनानि - धूतादीनि तच्छतानि उपद्रवा राजादिकृताः अधुवो-न धुवः सूर्योदयकालवत्, 'अणिइए' इतिशब्दो नियतार्थोपदर्शकः, न विद्यते इति यत्रासावनितिः, न नियतस्वरूप इत्यर्थः, ईश्वरादेरपि दारिद्रयभावात्, 'सडण'ति शटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं खङ्गादिना अङ्गच्छेदनं विध्वंसनं क्षयः, एत एव धर्मा यस्य स तथा, 'अवस्सविप्पजहि 'त्ति अवश्य विप्रहातव्यः - त्याज्यः, 'से णं 'ति अथ कोऽसौ जानाति, 'के पुर्विवति कः प्राक् पितृपुत्रयोरन्योsन्यतो गमनायोत्सहते 'पच्छा' कः पश्चाद्गमनाय तत्रैवोत्सहते, कः पूर्व कः पश्चान्प्रियते इत्यर्थः, 'वंजण'त्ति व्यंजनं-मपीतिलकादि बलं - शारीरः प्राणः वीर्यं - मानसोऽवष्टम्भः सखं - चित्तविशेषः तैर्युक्तं 'समूसिय' समुच्छ्रितं 'अभिजाय'त्ति अभिजातं कुलीनं, महती क्षमा यत्र तत्तथा, 'निरुवहय'त्ति निरुपहतानि वातादिप्रकोपेन 'उदत्त' त्ति उदात्तानि वर्णगुणैः लष्टानि - रम्याणि पञ्चेन्द्रियाणि यत्र तत्तथा 'संनिकेय'ति सन्निकेतं स्थानं 'अडिय' नि अस्थिकरूपकाष्ठानि तेभ्य उत्थितं, 'सिर'त्ति शिरोनाड्यः 'पहारु' त्ति स्वायवस्तासां जालं-वृन्दं तेन पिनद्धं सम्पिनद्धं - अत्यर्थं वेष्टितं यत्तत्तथा, 'अणिडविय'त्ति अनिष्ठापिता-असमापिता सर्वकालं - सदा संस्थाप्यता - तत्कृत्यकरणं यस्य तत्तथा, 'जराकुणिम'त्ति जराकुणपश्च- जीर्णशवो जर्जरगृहं च- जीर्णगेहं समाहारद्वन्द्वाञ्जराकुणपजर्जरगृहं तदिव, किमित्याह - 'सडणे'त्यादि, कलाकुशलाः सर्वकलालालिताः सुखोचिताः 'विणओवयार'ति ९ शतके ३३ उद्दे.
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy