________________
श्रीभग०
९ शतके
लघुवृत्तौ ।
उद्देशः
| भेदा उक्ताः इह पुनरेकादशैव, यतः सम्मूछिमेषु गर्भजेषु च यद्यसङ्ख्यातं तदा द्वादशोऽपि भेदस्स्यात् , न चैवमत्र, गर्भजनराणां स्वरूपतोऽप्यसङ्ख्यातत्वाभावात् तत्प्रवेशनकेऽसङ्ख्यातासम्भवाद् , असङ्ख्यातपदैकादशभेददर्शनायाह-'असंखेजा' इत्यादि, 'सब्वेवि ताव संमुच्छिमित्ति सम्मूर्छिमानामसङ्ख्यातत्वात् प्रविशतामप्यसङ्ख्यातानां सम्भवः, ततश्च मनुष्यप्रवेशनकं प्रत्युत्कृष्टपदिनस्ते सर्वे स्युः, अत एव सम्मूर्छिममनुष्यप्रवेशनकमितरापेक्षया असङ्ख्यातगुणं ज्ञेयं, देवप्रवेशने 'सव्वेऽवि ताव जोइसिएसु होज'त्ति ज्योतिष्कगामिनो बहव इति तेघृत्कृष्टपदिनो देवप्रवेशनकवन्तः 'सव्वथोवे वेमाणिए देवप्पवे. सणए'त्ति तद्गामिनां तत्स्थानां चाल्पत्वादिति । अथ नारकादिप्रवेशनकाल्पबहुत्वमाह-(सू.३८६) तत्र सर्वस्तोकं मनुष्यप्रवेशनकं, | मनुष्यक्षेत्र एव (भावात्) तस्य च स्तोकत्वात् , नैरयिकप्रवेशनकं त्वसङ्ख्यातगुणं, तद्गामिनामसङ्ख्यातगुणत्वात् , एवमुत्तरत्रापि। अथ नारकाणामुत्पादोद्वर्त्तने सान्तरनिरन्तरतामाह-'संतरं भंते'इत्यादि (सू.३७८)॥अथ प्रकारान्तरेण नारकादीनामुत्पादोद्वर्त्तने निरूपयन्नाह-'सओ नेरइया उववज्जति सन्तो-विद्यमाना द्रव्यार्थतया, नहि सर्वथैवासत्किञ्चिदुत्पद्यते, असच्चासदेव खरविषाणवत् , सत्वं च तेषां जीवद्रव्यापेक्षया द्रव्यतो नारकास्सन्त उत्पद्यन्ते नारकायुष्कोदयाद्वा, भावनारका एव नारकत्वेनोत्पद्यन्ते, अथवा 'सओ'त्ति विभक्तिपरिणामात् सत्सु प्रागुत्पनेष्वन्ये उत्पद्यन्ते नोऽसत्सु, लोकस्य शाश्वतत्वेन नारकादीनां सदा सद्भावात् , 'से नूगं भो गंगेया' अनेन च तसिद्धांतेनैव स्वमत पोषितं, यतः पार्श्वनार्हता शाश्वतो लोक उक्तः अत एव | लोकस्य शाश्वतत्वात् सन्त एव सत्स्वेव वा नारकादय उत्पद्यन्ते च्यवन्ते चेति साध्वेतदिति । अथ गाङ्गेयो भगवदतिशायितां ज्ञान| सम्पदं विकल्पयन्नाह-'सयं भंते'त्ति स्वयं-आत्मना, लिङ्गानपेक्षमित्यर्थः, भंते'त्ति भगवन् ! 'एवं जाणहत्ति वक्ष्यमाणप्रकार |