SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ ४ उद्देशः |बहुत्वमाह-एयस्स गं'ति तत्र सर्वस्तोकं सप्तमपृथ्वीनारकप्रवेशनकं, तद्गामिनां शेषापेक्षया स्तोकत्वात् , ततः षष्ठ्यामसङ्ख्या| तगुणाः, तद्गामिनामसङ्ख्यातगुणत्वात् , एवमुत्तरत्रापि । अथ तिर्यप्रवेशनकमाह-'तिरिक्ख'त्ति (सू. ३७३) इहैकस्तिर्यग्यो|निक एकेन्द्रियेषु स्यादित्युक्तं, तत्र यद्यप्येकेन्द्रियेष्वेकः कदाचिदप्युत्पद्यमानो न लभ्यते, अनन्तानामेव तत्रानुसमयमुत्पत्तेः, यतः| 'अणुसमयमसंखिजा एगिदिय हुंति य चवंति' इति वचनात् तथापि देवादिभ्य उद्धृत्य यस्तत्रोत्पद्यते तदपेक्षयकोऽपि लभ्यते, | एतदेव प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति, सजातीयेषु सजातीयः प्रविष्ट एव इति किं तत्र प्रवेशनक उच्यते, तत्रैकस्य क्रमेणेकेन्द्रियादिपञ्चसु पदेषु उत्पादे ५ भेदाः, द्वयोरप्येकैकस्मिन्नुत्पादे पञ्चैव, द्विकयोगे १० भेदाः, एतेनैव सूचयता 'अहवा एगिदिएसु' इत्यायुक्तं, अथ सक्षेपार्थ त्र्यादीनामसङ्ख्यातपर्यन्तानां तिर्यग्योनिकानां प्रवेशनकं दर्शयन्नाह| 'एवं जह'त्ति नारकप्रवेशनकसममिदं सर्वं, परं तत्र सप्तपृथ्वीष्वेकादयो नारका उत्पादिताः तिर्यञ्चश्च तथैव पञ्चस्थानेषूत्पादनीयाः, | ततो विकल्पनानात्वं स्यात्, तच्च प्रागुक्तन्यायेन स्वयमध्येयमिति । इह चानन्तानामेकेन्द्रियाणामुत्पादेऽपि अनन्तपदं नास्ति, प्रवेशनकस्योक्तलक्षणस्थासङ्ख्यातानामेव भावादिति, 'सव्वेऽवि ताव एगिदिएसु होज'त्ति एकेन्द्रियाणामतिबहूनां प्रतिसमयमुत्पादात्, 'दुयासंजोगो'त्ति इह प्रक्रमे द्विकसंयोगश्चतुर्द्धा, त्रिकसंयोगः षोढा, चतुष्कयोगश्चतुर्दा, पञ्चकयोगस्त्वेक एव । 'सव्वत्थोवे पंचिंदिय'त्ति पञ्चेन्द्रियजन्तूनां स्तोकत्वात् , ततश्चतुरिन्द्रियादिप्रवेशनकानि परस्परेण विशेषाधिकानि (म.३७४) | मनुष्यदेवप्रवेशनके सुगमे तथापि किञ्चिदुच्यते-सम्मूछिमगर्भजलक्षणस्थानद्वयमाश्रित्यैकादिसङ्ख्यातान्तेषु प्राग्वद् भेदाः कार्याः, तत्र चातिदेशानामन्त्यं सङ्ख्यातपदमिति तद्भेदानाह-'संखेजाईति इह द्विकयोगे प्राग्वदेकादश भेदाः, असङ्ख्यातपदे पूर्व १२ walpimmunniummatician
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy