SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ नीयं, नवरं सङ्क्षेपेण भेदसङ्ख्या दर्श्यते - एकत्वे सप्त विकल्पाः, द्विकयोगाः ८४ भेदाः, कथं १, द्विकसंयोगे सप्तानामेकविंशतिभङ्गाः, पञ्चानां नारकाणां द्विधाकरणे अक्षसञ्चारणावगम्याश्चत्वारो भेदाः स्युस्तद्यथा - एकश्चत्वारश्च द्वौ त्रयथ त्रयो द्वौ च चत्वार एकश्चेति, तदेवमेकविंशतिश्चतुर्भिर्गुणिताश्चतुरशीतिः, त्रिकयोगे तु सप्तानां ३५ भेदाः स्युः, पञ्चानां च त्रित्वेन स्थापने ६ भेदातद्यथा - एक एकत्रयश्च १ एको द्वौ द्वौ च २ द्वावेको द्वौ च ३ एकत्रय एकच ४ द्वौ द्वावेकश्च ५ द्वौ त्रय एकच ६, तदेवं पञ्चत्रिं शत् षड्भिर्गुणने २१० भेदास्स्युः, चतुष्कसंयोगे तु सप्तानां ३५ भेदाः स्युः, पञ्चानां चतूराशितया स्थापने ४ भेदाः, तद्यथा| १११२ । ११२१ । १२११ । २१११ । तदेवं ३५ चतुर्भिर्गुणने १४० भेदाः, पञ्चकयोगे त्वेकविंशतिः, सर्वाग्रं ४६२ भेदाः स्युः । 'छ भंते! नेरइया' इहैकत्वे सप्त द्विकसंयोगे तु षण्णां द्वित्वे ५ भेदास्तद्यथा - १५ । २४ । ३३ । ४२ । ५१ । तैश्च सप्तपदद्विकसंयोगैकविंशतेः १०५ भेदास्स्युः, त्रिकसंयोगे तु षण्णां त्रित्वे १० भेदाः, तद्यथा - ११४ । १२३ । २१३ । १३२ । २२२ । | ३१२ । १४१ । २३१ । ३२१ । ४११ । एतैश्च पञ्चत्रिंशतः सप्तपदत्रिकसंयोगानां गुणनेन ३५० भेदाः, चतुष्कसंयोगे तु षण्णां चतूराशितया स्थापने १० भेदास्तद्यथा - १११३ । ११२२ । १२१२ । २११२ | ११३१ । १२२१ । १३११ । २१२१ । २२११ । ३१११ । पञ्चत्रिंशतच सप्तपदचतुष्कसंयोगानां दशभिर्गुणने ३५० भेदाः, पञ्चकयोगानां दशभिर्गुणने तु षण्णां पञ्चधाकरणे ५ भेदाः, तद्यथा - ११११२ । १११२१ । ११२११ । १२१११ | २११११ | सप्तानां पदानां पञ्चकयोगे २१ भेदाः, तेषां पञ्चभिर्गुणने पश्चोत्तरशतमिति, पद्योगे तु सप्तैव, एते सर्वाग्रं ९०० भेदाश्चतुर्विंशत्यधिकाः । 'सत्त भंते' इत्यादि, इहैकत्वे सप्त, द्विकयोगे सप्तानां द्विश्वे ६ भेदाः, तद्यथा - १६ । २५ । ३४ । ४३ । ५२ । ६१ । षमिव सप्तपदद्विक संयोगक विंशतिगुणने ९ शतके ३२ उद्दे.
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy