________________
श्रीभग० लघुवृत्तौ
९ शतके ३२ उहे.
amam ante
मेकद्विकसंयोगाभ्यां तेऽवसेयाः, तत्रैकैकपृथ्व्यां नारकद्वयोत्पत्तिलक्षणैकत्वे सप्त विकल्पाः, पृथ्वाद्वये नारकद्वयोत्पत्तिलक्षणद्विकयोगे त्वेकविंशतिः, एवं सर्वे २८ । 'तिणि भंते'त्ति इत्यादौ ८४ भेदाः, तथाहि-पृथ्वीनामेकत्वे ७ विकल्पाः, द्विकसंयोगे तु तासामेको द्वावित्यनेन नारकोत्पादविकल्पेन रत्नप्रभया सह शेषाभिः क्रमेण चारिताभिर्लब्धाः षट्, द्वावेक इत्यनेनापि नारकोत्पादविकल्पेन पडेव, तदेते १२, एवं शर्कराप्रभया पश्च पश्चेति १०, एवं वालुकायामष्टौ ८, पङ्कप्रभायां ६, धूमप्रभायां ४, तमःप्रभायां २, द्विकयोगे ४२ त्रिकयोगे ३५ एवं सर्वे ८४। 'चत्तारि भंते'त्ति इत्यादौ २१० भेदाः, तथाहि-पृथ्वीनामेकत्वे ७ विकल्पाः, द्विकयोगे तु तासामेकस्त्रय इत्यनेन नारकोत्पादविकल्पेन रत्नप्रभया सह शेषामिः क्रमेण चारिताभिलब्धाः षद्, द्वौ द्वावित्यनेनापि पट्, त्रय एक इत्यनेनापि पडेव, तदेवमेते अष्टादश,शर्कराप्रभया तु तथैव त्रिषु प्रागुक्तनारकोत्पाद विकल्पेषु पञ्चदश, |एवं वालुकाप्रभायाश्चत्वार इति १२, पङ्कप्रभायास्त्रयस्त्रय इति ९ धूमप्रभया द्वौ द्वाविति ६ तमःप्रभयैकैक इति ३, तदेवमेते द्विकसंयोगे
६३, तथा पृथ्वीनां त्रिकयोगे एकः एको द्वावेवं नारकोत्पादभेदेन रत्नप्रभाशर्कराप्रभाभ्यां सहान्याभिः क्रमेण चारितामिर्लब्धाः पञ्च, |एको द्वावेकश्चैवं नारकोत्पादभेदान्तरेऽपि पश्च द्वावेक एकश्चैवमपि पञ्चैवेति पश्चदश, एवं रत्नप्रभावालुकाप्रभाभ्यां सहोत्तराभिःक्रमेण चारिताभिर्लब्धाः१२,एवं रत्नप्रभाधूमप्रभाभ्यां रत्नप्रभाधूमप्रभाभ्यां ६ रत्नप्रभातमःप्रभाभ्यां ३,शर्कराप्रभावालुकाप्रभाभ्यां१२ शर्कराप्रभापङ्कप्रभाभ्यां ९ शर्कराप्रभाधूमप्रभाभ्यां ६ शर्कराप्रभातमःप्रभाभ्यां ३,वालुकाप्रभापङ्कप्रभाभ्यां९वालुकामभाधूमप्रभाभ्यां ६ पङ्कनभातमःप्रभाभ्यां ३ पङ्कप्रभाधूमप्रभाभ्यां ६ पङ्कप्रभातभःप्रभाभ्यां ३ धूमप्रभादित्तिसु १, तदेवं त्रिकयोगे पञ्चोत्तरं शतं,चतुष्कसंयोगे तु ३५, एवं सप्तानां त्रिषष्टेः पश्चोत्तरशतस्य पञ्चत्रिंशतः मीलने द्वेशते दशोत्तरे भवतः । 'पंच भंतेत्ति इत्यादि पूर्ववद् भाव
n dim
१५७॥
WINION