________________
श्रीभग० लघुवृत्तौ
तैरण्यवन्तहरिवर्षरम्यकेषु भवन्ति, तेषु च तस्य भावः आकाशगतिलब्धिसम्पन्नस्य तत्र गतस्य केवलोत्पत्तिसद्भावे सति, 'साहरणं'ति देवेन नयनं प्रतीत्य 'सोमणसवणे' त्ति सौमनसवनं मेरौ तृतीयं, पाण्डुगवनं चतुर्थं, 'गड्डाए' त्ति गर्ने निम्नभूभागे अधोलोकग्रामादौ ' दरिए 'त्ति दर्या, 'पायाले'त्ति पातालकलशे 'भवण'त्ति भवनपतिषु, 'पण्णरस' त्ति १५ कर्मभूमिषु, कर्माणि - कृषिवाणिज्यादीनि तद्भूमयः कर्मभूमयस्तासु ।' तस्स' त्ति (सू. ३६९) यः श्रुत्वा केवलमुत्पादयेत् तस्य प्रतिपन्नसम्यग्दर्शनचारित्रस्य 'अट्टमंअट्टमेणं' ति इति यदुक्तं तत् प्रायो विकृष्टतपश्चरणवतस्साधोरवधिज्ञानमुत्पद्यत इति ज्ञापनार्थमिदं, 'छसु लेसासु' त्ति यद्यपि भावलेश्यासु प्रशस्तास्वेव तिसृष्ववधिज्ञानं लभते तथापि द्रव्यलेश्याः प्रतीत्य षट्स्वपि लेश्यासु लभते सम्यक्त्वश्रुतवत्, यदुक्तं"सम्मत्त सुयं सव्वासु लहइ" ति, तल्लाभे चासौ पट्स्वपि स्यादिति, 'तिसु व 'त्ति अवधेराद्यज्ञानद्वयाविनाभृतत्वादधिकृतावधिज्ञानी त्रिषु ज्ञानेषु स्यादिति, 'चउसु'त्ति मतिश्रुतमनःपर्यायज्ञानिनोऽवधिज्ञानोत्पत्तौ ज्ञानचतुष्कभावाच्चतुर्ज्ञानेषु अधिक्रतावधिज्ञानी स्यादिति, अक्षीणवेदस्यावधिज्ञानोत्पत्तौ सवेदकः, क्षीणवेदस्यावधिज्ञानोत्पत्तौ ज्ञानचतुष्कभावाच्चतुर्ज्ञानेषु अधिकृतावधिज्ञानी स्यात्, प्राप्तव्य केवलज्ञानस्यास्य विवक्षितत्वात्, 'चउसु'त्ति यद्यक्षीणकषायोऽवधिज्ञानी तदाऽयं चारित्रयुक्तत्वाच्चतुस्सञ्ज्वलनकषायेषु स्यात्, यदा क्षपकश्रेणिवर्त्तित्वेन सज्ज्वलनक्रोधे क्षीणेऽवधिं लभते तदा त्रिषु सज्ज्वलनमानादिषु यदा तु सज्ज्वलनक्रोधमानयोः क्षीणयोस्तदा द्वयोः, एवमेकत्रेति ॥ नवमशते एकत्रिंशत्तमः ॥
'पवेसणए'त्ति (सू. ३७०) गत्यन्तरादुदृत्तस्य जीवस्यान्यगतौ जीवप्रवेशनमुत्पादः, 'एगे भंते ने रइए' (सू. ३७१) इत्यादौ ७ विकल्पाः, 'दो भंते' इत्यत्र २२८ विकल्पाः, तत्र रत्नप्रभाद्यास्सप्तापि पृथिवीः क्रमात् पट्टादौ संस्थाप्याक्षसञ्चारणया पृथ्वीना
९ शतके ३२ उद्दे.