________________
९ शतके उद्देशः
लघुवृत्ती
masinarunilupinmenilineaning
श्रीभगवसायस्थानानि, 'अणंतेहिंति अनन्तैरनन्तानागतकालभाविभिः 'विसंजोय'त्ति तत्प्राप्तियोग्यतापनोंदादिति, 'जाओऽवि
यत्ति या अपि च चतुर्गतिनाश्याः 'उत्तरपयडीओत्ति नामकर्ममूलप्रकृतरुत्तरभेदभृताः 'तासिंति तासां चतुर्गत्याधुत्तरप्रकृतीनां चशब्दादन्यासां च 'उवग्गहिए'त्ति औपग्रहिकान्-उपष्टम्भप्रयोजनान् अनन्तानुवन्धिक्रोधादीन् चतुरः क्षपयेत् , तथा
अप्रत्याख्यानादींश्च क्षपयतीति, 'पंचविह'ति मतिज्ञानावरणादिभेदात् 'नवविहं'ति नवविधं दर्शनावरणीयं चक्षुर्दर्शनाद्यावरणमचतुष्कस्य निद्रापञ्चकमीलनात् नवविधत्वमस्य,'तालमत्थाकडं ति मस्तकं-मत्तकशूचि कृत्तं-छिन्नं यस्यासौ मस्तककृत्तः ताल
चासौ मस्तककृत्तश्च तालमस्तककृत्तः, छान्दसत्वादेवं निर्देशः, अयमर्थः-छिन्नमस्कतालकल्पं मोहनीयं कृत्वा, यथा हि छिन्नमस्तकस्तालः क्षीगः स्यात् एवं मोहनीयं च कृत्वा, क्षीणं कृत्वेति भावः, आह च-"मस्तकशूचिविनाशे तालस्य यथा ध्रुवो भवति नाशः। तद्वत्कर्मविनाशो मोहनीयक्षये नित्यं ॥१॥" ततश्च 'कम्मरय'त्ति कर्मरजोविकरणकर-तद्विनाशकरं अपूर्वकरणं अस-1 दृशाध्यवसायविशेषमाश्रितस्य, अनन्तं विषयानन्त्यात् , अनुत्तरं सर्वोत्कृष्टत्वात् , निर्व्याघातं कुड्याद्यप्रतिहतत्वात् , निरावरणं स्वावरणक्षयात् , कृत्स्नं सकलार्थग्राहकत्वात् , प्रतिपूर्ण सर्वस्वांशयुक्तत्वात्।। 'आघवेज'त्ति (सू ३६७) आग्राहयेच्छिष्यान् ‘पण्णवेज'त्ति प्रज्ञापयेत् भेदकथनात् 'परवेज'त्ति युक्तिकथनतः 'नण्णत्थ एगनाए न्ति न निषेधार्थः, सोऽन्यत्र एकज्ञातात् , एकोदाहरणं वर्जयित्वेत्यर्थः,'एगवागरणेण वत्ति एकव्याकरणाद्, एकोत्तरादित्यर्थः, पव्वावेज'त्ति प्रव्राजयेद्रजोहरणादिदानतः 'मुंडावेज'त्ति मुंडयेच्छिरोलुश्चनतः 'उवएसं पुण'त्ति अस्य पार्थे प्रव्रजेत्यादिकमुपदेशं कुर्यात् ।। 'सद्दावाई'त्यादि (सू.३६८) शब्दापातिप्रभृतिवृत्तवैतादयगिरयो यथाक्रम जम्बूद्वीपप्रज्ञत्यभिप्रायेण हैमवतहरिवर्षरम्यकरण्यवतेषु क्षेत्रसमासाभिप्रायेण च हैमव
immitsummatlinamainimalitimantulimmamisamand
१५६॥