________________
श्रीभग० लघुवृत्तौ
स्यात् तत्सद्भावे चाश्रुत्वाऽपि धर्मं लभेत श्रोतुं, क्षयोपशमस्यैव तल्लाभे अन्तरङ्गकारणत्वादिति, 'केवलं बोहिं'ति शुद्धं सम्यग्दर्शनं 'बुज्झेज्ज'त्ति बुंध्येत, अनुभवेदित्यर्थः, यथा प्रत्येकबुद्धादिः, एवमग्रेऽपि वाच्यं, 'दरसणावरणिजाणं' ति इह दर्शनावरणीयं दर्शनमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात्, तल्लाभस्य च तत्क्षयोपशमजन्यत्वादिति, 'केवलं 'ति केवलां - शुद्धां सम्पूर्णा वा अनगारतामिति, 'धम्मंतरायाणं' ति धर्मान्तरायिकाणां वीर्यान्तरायचारित्रमोहनीय भेदानामित्यर्थः, 'चारित्तावरणिज' त्ति इह वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्माणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यस्य वा विशेषतस्तेषामेवावारकत्वात्, 'जयणावरणिजाणं'ति यतनावरणीयानि चारित्रविशेषविषयवीर्यान्तरायलक्षणानि मन्तव्यानि, 'अज्झवसाणावरणिजाणं' ति संवरशब्देन शुभाध्यवसायवृत्तेर्विवक्षितत्वात् तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वाद् अध्यवसानावरणीयशब्दे| नेह भावचारित्रावरणीयान्युक्तानि इति, पूर्वोक्तानेवार्थान् पुनः समुदायेनाह - 'असोचा णं भंते' इत्यादि, अथाश्रुत्वैव केवल्यादिवचो यथा कश्चित् केवलज्ञानमुत्पादयेत् तथा दर्शयितुमाह-'तस्स 'त्ति (सू. ३६५) योऽश्रुत्वैव केवलज्ञानमुत्पादयेत् तस्य कस्यापि 'छछट्टेण' मित्यादि च यदुक्तं तत्प्रायः षष्ठतपश्चरणवतो बालतपखिनो विभङ्गज्ञानविशेष उत्पद्यते इति ज्ञापनार्थमिति, 'पगिज्झिय' त्ति प्रगृह्य, धृत्वेत्यर्थः, ' तयावरणिजाणं' ति विभङ्गज्ञानावरणीयानां 'ईहापोहमग्गणगवे सणं' ति इहेहा-सदर्थालोचनचेष्टा अपोहश्चतद्विपक्षनिरासः मार्गणं-अन्वयधम्र्म्मालोचनं गवेषणं - व्यतिरेकधम्मालोचनमिति, ' से णं' ति स बालसपखी 'जीवे विजाणई' त्ति कथञ्चिदेव, न तु साक्षात्, मूर्त्तगोचरत्वात् तस्य, 'पासंडत्थे 'ति व्रतस्थान् 'सारंभस परिग्गहे' त्ति सारम्भसपरिग्रहान्, किंविधान् जानातीत्याह - 'संकिलिस्स' त्ति महासंक्लेशतया संक्लिश्यमानानपि जानाति, 'विसुज्झ' त्ति अल्पीयस्यापि विशुद्ध्या विशुध्ध्य
९ शतके ४ उद्देशः
॥१५५॥